2023-02-23 21:27:34 by ambuda-bot
This page has not been fully proofread.
२१४
काव्यमाला ।
एष चन्दनद्रुमोऽहं प्रभोः श्रीशिवस्य प्रियः स्यामिति हेतोः परशुना क्षतव्यथां यतः
सेहेऽत एव गिरिजापतेः श्रीशंभोः साम्यं ध्रुत्रं बिभर्ति । कमित्याह – किंभूत चन्दन-
द्रुमः । भुजंगमैरालिङ्गिता कंधरा मूलादूर्ध्व पृथुशाखा यस्य सः । शंभुरपि नागालिङ्गि-
तकंधरः ॥
यच्चक्रिरे धूतनखान्तनिपातपीडाः
प्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् ।
यत्स्वामिनो न दहनेऽपि निपत्य सेवा-
हेवाकमौज्झदगुरोरपि गौरवं तत् ॥ २२ ॥
सुमनसः पुष्पाणि पूजार्थ पुष्पावचयसमये धृता नखान्तानां निपातेन पीडा या
भिस्ताः सुमनसो यत्प्रभोः शंभो: प्रीति चक्रिरे एतदेव सुमनसां पुष्पाणां सुमनस्त्वं पु.
रूपत्वं सुशोभनं मनो यासां ताः सुमनसस्तत्त्वं च । अगुरुर्दहनेऽनावपि निपत्य स्वामिनः
शंभोः सेवाहेवाकं न औज्झन्न तत्याज तदगुरोरपि न गुरुरगुरुस्तस्यापि गौरवं भवति ॥
आदौ प्रदर्श्य परमामृजुतामथान्त-
राविश्य मर्मणि न यन्निशितास्तुदन्ति ।
स्वामिञ्शरा इव खलाः कृतिनो वनेषु
स त्वत्पदाम्बुजरजःकणजः प्रसादः ॥ २३ ॥
हे स्वामिन्, आदी परामुत्कृष्टामृजुतां सरलत्वं प्रदर्श्य अथानन्तरमन्तः प्रविश्य नि-
शितास्तीक्ष्णाः शरा इव यद्वनेषु विपिनेषु स्थितान्कृतिनो विदुषो न तुदन्ति ब्यथयन्ति
त्वत्पदाम्बुजरजःकणोद्भूतः स प्रसादः ॥
त्वन्नाम पामरजनैरपि गीयमान-
मानन्दमर्पयति यं हृदि भक्तिभाजाम् ।
स्वामिन्नमानवयवेष्वखिलेषु नून-
मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥ २४ ॥
हे स्वामिन्, पामरजनैर्नीचजनैरपि हालाकादौ गीयमानं भक्तिभाजां हृदि यमानन्दं
समर्पयति । नूनं संभावनायाम् । अखिलेष्मान् न मान्वर्तमानोऽसावानन्दो बहिः
पुलकच्छलेन रोमाञ्चव्याजेनोद्भिद्यते निर्याति ॥
धर्मः प्रकम्पपुलकौ गिरि गद्गदत्व -
मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः ।
१. हालाको देशभाषानिबद्धो गीतविशेषः.
Digitized by Google