This page has been fully proofread once and needs a second look.

१२ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२१३
 
हृदं सौहार्दं यस्य स तादृशो यो विधुश्चन्द्रो वनान्तरे जलान्तरे समुद्रस्य पदं स्थिति मकरो-

दिति । तथा यो रविः सूर्यश्च सदा परेषां स्वापं हरतीति तादृशोऽभूत् । तयोश्चन्द्रसूर्ययोः

समत्वं यस्य दृशि भासते । समत्वं समदृक्त्वम् । सह मया लक्ष्म्या वर्तेते यौ समौ ।

तयोर्भावः समत्वं च । अथ च पुरातीतयुगे रूढः कुरङ्गैर्मृगैः सह सौहृदं संवासो यस्य स

विधुर्विष्णुः । रामरूप औचित्यात् । वनान्तरेऽरण्यान्तरे चिरं चतुर्दशसमाः पदं स्थितिं

चकार । तथा परस्वं परद्रव्यं हरतीति परस्त्रावापहरोऽपि यो भवति पुरुषस्तयो रामभ-

द्रपरद्रव्यापहरपुरुषयोरुपरि यस्य श्रीशिवस्य दृशि समत्वं भासते । समदृष्ट्या तौ वि-

लोकयतीत्यर्थः । 'विधुर्विष्णौ चन्द्रमसि' इत्यमरः । 'जीवनं भुवनं वनम्' इति च ॥ हे

विभो, सदा दयाविधेयस्य कृपायत्तस्य तस्य पूर्वोक्तसमदृष्टित्वस्य तव सतां विदुषाम-

सेव्ये कुत्सिते पथि पातितोऽज्ञानेनात्मा यैस्ते तादृशेषु दयापात्रेष्वस्मदादिषु कथं मना-

गनादरस्तिरस्कारः प्रवर्तताम् ॥ तिलकम् ॥
 

 
विभो भवद्भालविलोचनानलप्रसूतधूमैरिव साश्रुलोचनः ।

सघर्मलेशस्तव दक्षिणेक्षणप्ररूढचण्डद्युतिभाभरैरिव ॥ १८ ॥

 
घनप्ररोहत्पुलकाङ्कुरो भवच्छिखण्डखण्डेन्दुकरोत्करैरिव
 


सदन्तवीणस्तुहिनौघशीतलत्वदुत्तमाङ्गद्युनदीजलैरिव ॥ १९ ॥

 
तरङ्गिताङ्गो भवदङ्गदस्फुरत्फणीन्द्रफूत्कारसमीरणैरिव ।

भवेयमानन्दसुधारिष्ठपरिप्लुतः प्रसन्नमालोक्य भवन्तमप्ग्रतः ॥ २० ॥
 

(तिलकम्)
 

 
हे विभो, भवदेकध्यानादप्ग्रतः प्रसन्नं भवन्तमालोक्यानन्दसुधया परमानन्दामृतेन
परिष्ठु

परिप्लु
तः सिक्तो भवेयम् । अहं किंभूतः । भवद्भाले भवतो ललाटे विलोचनानलाग्ने-

त्राभेग्ने: प्रसूतैर्धूमैरिव साश्रुनेत्रः । आनन्दा श्रुरूपकमिदम् । पुनः किंभूतः । तव दक्षिणे-

क्षणे दक्षिणनेत्रे प्ररूढो यश्चण्डद्युतिः सूर्यस्तस्य माभाभरैर्दीप्तिपुञ्जैरिव सस्वेदलवः । अ-

त्रापि स्वेदः सात्त्विकभावः ॥ पुनः किंभूतः । भवच्छिखण्डे भवत्किरीटे यः खण्डेन्दु-

स्तस्य करोत्करैः किरणसमूहैरिव घनाः प्ररोहन्तः पुलकाङ्कुरा यस्य स तादृशः । पुनः

किंभूतः । तुहिनौघवच्छीतला या त्वदुत्तमाङ्गगङ्गा तज्जलैरिव सदन्तवीणः । शीतवशा-

द्द
न्तटणत्कारो दन्तवीणा । सदन्तटणत्कार इव ॥ पुनः किंभूतः । भवदङ्गंदे भवत्केयूरे

स्फुरन्तो ये फणीन्द्रा वासुक्रिप्रभृतयस्तेषां ये फूत्कारपवनास्तैरिव तरङ्गिताःताङ्गः कम्पि-

ताङ्गः । कम्पो हि सात्त्विको भावः ॥ तिलकम् ॥
 

अथ श्रीशिवभट्टारकस्य पूजार्हचन्दनपुष्पगन्धादीनां धन्यत्वं वर्णयन्नाह -

 
यदेष सेहे परशुक्षतव्यथां प्रभोः प्रियः स्यामिति चन्दनद्रुमः ।

भुजंगमालिङ्गितकंधरो ध्रुवं बिभर्ति साम्यं गिरिजापतेरतः ॥ २१ ॥
 
Digitized by Google