2023-02-23 21:27:34 by ambuda-bot
This page has not been fully proofread.
१२ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
२१३
हृदं सौहार्द यस्य स तादृशो यो विधुश्चन्द्रो वनान्तरे जलान्तरे समुद्रस्य पदं स्थिति मकरो-
दिति । तथा यो रविः सूर्यश्च सदा परेषां स्वापं हरतीति तादृशोऽभूत् । तयोश्चन्द्रसूर्ययोः
समत्वं यस्य दृशि भासते । समत्वं समदृक्त्वम् । सह मया लक्ष्म्या वर्तेते यौ समौ ।
तयोर्भावः समत्वं च । अथ च पुरातीतयुगे रूढः कुरमृगैः सह सौहृदं संवासो यस्य स
विधुर्विष्णुः । रामरूप औचित्यात् । वनान्तरेऽरण्यान्तरे चिरं चतुर्दशसमाः पदं स्थितिं
चकार । तथा परस्वं परद्रव्यं हरतीति परस्त्रापहरोऽपि यो भवति पुरुषस्तयो रामभ-
द्रपरद्रव्यापहरपुरुषयोरुपरि यस्य श्रीशिवस्य दृशि समत्वं भासते । समदृष्टया तौ वि-
लोकयतीत्यर्थः । 'विधुर्विष्णौ चन्द्रमसि' इत्यमरः । 'जीवनं भुवनं वनम्' इति च ॥ हे
विभो, सदा दयाविधेयस्य कृपायत्तस्य तस्य पूर्वोक्तसमदृष्टित्वस्य तव सतां विदुषाम-
सेव्ये कुत्सिते पथि पातितोऽज्ञानेनात्मा यैस्ते तादृशेषु दयापात्रेष्वस्मदादिषु कथं मना-
गनादरस्तिरस्कारः प्रवर्तताम् ॥ तिलकम् ॥
विभो भवद्भालविलोचनानलप्रसूतधूमैरिव साश्रुलोचनः ।
सघर्मलेशस्तव दक्षिणेक्षणप्ररूढचण्डद्युतिभाभरैरिव ॥ १८ ॥
घनप्ररोहत्पुलकाङ्कुरो भवच्छिखण्डखण्डेन्दुकरोत्करैरिव
।
सदन्तवीणस्तुहिनौघशीतलत्वदुत्तमाङ्गद्युनदीजलैरिव ॥ १९ ॥
तरङ्गिताङ्गो भवदङ्गदस्फुरत्फणीन्द्रफूत्कारसमीरणैरिव ।
भवेयमानन्दसुधारिष्ठतः प्रसन्नमालोक्य भवन्तमप्रतः ॥ २० ॥
(तिलकम्)
हे विभो, भवदेकध्यानादप्रतः प्रसन्नं भवन्तमालोक्यानन्दसुधया परमानन्दामृतेन
परिष्ठुतः सिक्तो भवेयम् । अहं किंभूतः । भवद्भाले भवतो ललाटे विलोचनानलाने-
त्राभे: प्रसूतैर्धूमैरिव साश्रुनेत्रः । आनन्दा श्रुरूपकमिदम् । पुनः किंभूतः । तव दक्षिणे-
क्षणे दक्षिणनेत्रे प्ररूढो यश्चण्डयुतिः सूर्यस्तस्य माभरैप्तिपुरिव सस्वेदलवः । अ-
त्रापि स्वेदः सात्त्विकभावः ॥ पुनः किंभूतः । भवच्छिखण्डे भवत्किरीटे यः खण्डेन्दु-
स्तस्य करोत्करैः किरणसमूहैरिव घनाः प्ररोहन्तः पुलकाङ्कुरा यस्य स तादृशः । पुनः
किंभूतः । तुहिनौघवच्छीतला या त्वदुत्तमाङ्गगङ्गा तजलैरिव सदन्तवीणः । शीतवशा-
इन्तटणत्कारो दन्तवीणा । सदन्तटणत्कार इव ॥ पुनः किंभूतः । भवदङ्गंदे भवत्केयूरे
स्फुरन्तो ये फणीन्द्रा वासुक्रिप्रभृतयस्तेषां ये फूत्कारपवनास्तैरिव तरङ्गिताः कम्पि-
ताङ्गः । कम्पो हि सात्त्विको भावः ॥ तिलकम् ॥
अथ श्रीशिवभट्टारकस्य पूजार्हचन्दनपुष्पगन्धादीनां धन्यत्वं वर्णयन्नाह -
यदेष सेहे परशुक्षतव्यथां प्रभोः प्रियः स्यामिति चन्दनद्रुमः ।
भुजंगमालिङ्गितकंधरो ध्रुवं बिभर्ति साम्यं गिरिजापतेरतः ॥ २१ ॥
Digitized by Google