This page has been fully proofread once and needs a second look.

२१२
 
काव्यमाला ।
 
पञ्चात्सुदुर्लभः सुनुष्टुं दुर्लभः । मुखेऽपि ममासौ सरस्वती वाणी संनिहितास्ति । हे स्वा-

मिन्, त्वं चेदं क्षेत्रं मलक्षणमतीव पावनं शुचितरं कुरु । उचिते युक्तेऽर्थिन्यर्थान्मयि

किमर्थं विलम्बसे विलम्बं करोषि । अथ च ग्रहो ग्रहणमृपरागापरपर्यायः सुदुर्लम:भः सूर्य-

ग्रहणसंभवो भवति । असौ संनिहिता सरस्वती नदी च । अतीव पावनं कुरुक्षेत्रं ती-

र्थविशेषञ्श्च । एतानि वस्तूनि संघटितानि । अर्थी च समुचितः संनिहितः । अत्रावलेपो न

युक्त इत्यर्थः ॥
 

 
न कस्य सौभाग्यवती चमत्कृतिं दिशत्यसौ भाग्यवती सरस्वती ।
 

विभुं जितक्लेशमपि स्थिराजिनं करोति यत्संमुखमस्थिराजिनम् ॥१४॥

 
सौभाग्यवती सुभगत्वयुक्ता भाग्यवती भाग्ययुक्ता चासौ सरस्वती वाणी कस्य न

चमत्कृतिं चमत्कारं दिर्शात ददाति । कुतस्तदित्याह — विभुमिति । सा सरस्वती विभुं

श्रीशिवमपि संमुखं यत्करोति । किंमूभूतमपि । जिता: क्लेशा अविद्यादयः पश्ञ्च येन स

तादृशस्तम् । पुनः किंभूतम् । स्थिरमजिनं कृत्तिवासो यस्य स तादृशस्तम् । पुनः किं-

भूतम् । अस्थिराजिनम् । अस्थिभी राजतेऽस्थिराजी तम् । अत्र सौभाग्यवती असौ-

भाग्यवती, स्थिराजिनमप्यस्थिराजिनमिति विरोधः । अन्यार्थत्वे विरोधाभासोऽलंकारः ॥

 
अनुज्झितानुत्तमदानसंपदः सदाखिलज्ञानविहीनचेतसः ।
 

अकालभीतिग्लपितान्करोति यः प्रभुः प्रसन्नः कुपितश्च देहिनः ॥१५॥

 
पुरा चिरं यो विदघेधे वनान्तरे विधुः पदं रूढकुरङ्गसौहृदः ।

सदा परस्खापहरोऽपि यो रविस्तयोः समत्वं दृशि यस्य भासते ॥१६॥

 
कथं [^१]विभो तस्य तव प्रवर्ततां सतामसेव्ये पथि पातितात्मसु ।

दयाविधेयस्य सदास्मदादिषु प्रसादपात्रेषु मनागनादरः ॥ १७ ॥
 

(तिलकम्)
करोति कुपि
 

 
यः प्रभुः श्रीशिवः प्रसन्नः सन्ननुज्झितेत्यादिविशेषणविशिष्टान्देहिनः

करोति कुपि
तश्च । प्रसन्नपक्षे देहिनः किंभूतान् । अनुज्झितात्यक्तानुत्तमात्युत्तमा दानसंपद्यैस्ते तादृ-

शान् । पुनः किंभूतान् । सदाखिलज्ञान् । तथाविहीनचेतसोऽखण्डितचेतसः । पुनः

किंभूतान् । अकालेत्यादि । न कालभीत्या यमभयेन ग्लपिता बाधितास्तानकालभी-

तिग्लपितान् । कुपितपक्षे देहिनः किंभूतान् । अनुज्झितानुत्तमदान् । 'णुद प्रेरणे' धातुः ।

अनुत्त: केनाप्यप्रेरितो मदो मदाख्यं व्यसनम् । अनुज्झितोऽत्यक्तोऽनुत्तो मदो यैस्ते

तांस्तादृशान् । मदाख्यव्यसनयुक्तानित्यर्थः । तथासंपदः संपद्रहितान् । पुनः किंभूतान् ।

अखिलज्ञानेन विहीनं चेतो येषां ते तादृशास्तानखिलज्ञानविहीनचेतसः । पुनः किंभूतान् ।

अकालेऽनवसरे या भीतिस्तया ग्लपितान्ग्लानिं प्रापितान् ॥ रूढः कुरङ्गेण शशेन सौ-

 
[^
]. 'विभोः' ख.
 
Digitized by Google