This page has been fully proofread once and needs a second look.

१२ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् ।
 

कथं न हारा इव भक्तिमन्तः पदं हृदीशस्य भजन्ति सन्तः ॥ १० ॥
 
२११
 

 
भक्तिमन्तः सन्तः साधवः पण्डिताश्च । 'सन्सुधोः कोविदो बुधः' इत्यमरः । ईशस्य

परमेशस्य हृदि पदं स्थानं कथं भजन्ति । यथा हारा ईशस्य प्रभोर्हृदि पदं कुर्वन्ति ।

भक्तिमतः सतो हारांश्च विशिनष्टि सन्तः किंभूताः । मुक्तामयाः मुक्त आमयो ज

न्मजरामरणत्रासरूपो रोगो बाह्यो रोगो वा यैस्ते । तथा दीर्घा गुणा वैदुष्यकवित्वदा-

क्षिण्यादयो येषां ते । तथा सुवृत्ताः सदाचाराः । तथा नैर्मल्यं निर्दोषत्वं दधतः । तथा

फलानां सुकृतफलानामृद्धिं दधतः । हाराश्च किंभूताः । मुक्तामया मौक्तिकप्रचुराः ।

तथा दीर्घा गुणास्तन्तवो येषां ते । तथा सुष्नुटु वृत्ता वर्तुलाकाराः । तथा फलानां मुक्ता-

फलानामृद्धिं च दधतः । तथा भक्तिमन्तो विच्छित्तियुक्ताः । शब्दश्लेषोऽलंकारः ॥

 
गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् ।

सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं भगवन्भवेयम् ॥ ११ ॥
 

 
हे भगवन् । कदेति शेषः । भवत्प्रसादाद्भवानिव कदाहं भवेयम् । अहं किंभूतः । गु-

हाश्रितः गुहां देवखातबिषिलं तपोर्थमाश्रितः । तथा धर्मे सुकृते रतिर्यस्य । सः .......

। पुनः किंभूतोऽहम् । सत्ये सत्यवचने आहिता प्रीतिर्येन सः । पुनः किंभूतः ।

अहीना भक्तिः श्रीशिवोपासनासक्तिर्यस्य सः । भवानपि कथंभूतः । गुहेन कुमारेणा-

श्रितः । तथा धर्मे वृषे रतिर्यस्य सः । 'वृषो हि भगवान्धर्मः' इति श्रुतेः । गिरीश इति

प्रथां दधानः । पुनः किंभूतः । सती दक्षसुता । या हिमाचलगृहे जन्म गृहीत्वा पार्वती

जाता । तस्यां पार्वत्यामाहिता प्रीतिर्येन सः । अहीनैर्भुजगेन्द्रैर्वासुक्यादिभिर्भक्तिः

शोभा यस्य सः । अत्रापि शब्दश्लेषः ॥
 
......
 

 
यमेकमाराध्य महारिसंगमादसंशयं भक्तजनः प्रमुच्यते ।
 

उपस्थितस्तस्य भवत्प्रसादतः कथं हरेरुग्र महारिसंगमः ॥ १२ ॥
 

 
हे उम्र विभो, यमेकं हरिमाराध्य महारिसंगमान्महान्तश्च तेऽरयः शत्रवस्तेषां संग-

मस्तस्मान्निः संशयं भक्तजनः प्रमुच्यते मोक्षं लभते । तस्यैव हरेर्भवत्प्रसादतः कथं म

हारिसंगम उपस्थितः । महान्तोऽरा आश्रया यस्य तन्महारि । यद्वा महच्च तदरि चक्रं

सुदर्शनाख्यं तेन संगमः कथं भवत्प्रसादादुपस्थितः प्राप्तः । 'हरिस्ते साहस्रं कमलब

लिमाधाय पदयोः' इत्यत्र वृत्ते श्रीशिवभट्टारकेण प्रसन्नीभूतेन विष्णवे सुदर्शनाख्यं चक्रं

दत्तमिति पौराणिकाः । अत्रापि शब्दश्लेषेणाश्चर्यवर्णनम् ॥
 

 
सुदुर्लभोऽयं भवति ग्रहः पुनर्मुखेऽप्यसौ संनिहिता सरस्वती ।

इदं कुरुक्षेत्रमतीव पावनं किमर्थमर्थिन्युचिते विलम्बसे ॥ १३ ॥
 

 
हे विभो, भवति भवद्विषयेऽयं प्ग्रहो हेवाको भक्तिसक्तिः । ममेति शेषः । मम पुनः
 
Digitized by Google