2023-02-23 21:27:33 by ambuda-bot
This page has not been fully proofread.
१२ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् ।
कथं न हारा इव भक्तिमन्तः पदं हृदीशस्य भजन्ति सन्तः ॥ १० ॥
२११
भक्तिमन्तः सन्तः साधवः पण्डिताश्च । 'सन्सुधोः कोविदो बुधः' इत्यमरः । ईशस्य
परमेशस्य हृदि पदं स्थानं कथं भजन्ति । यथा हारा ईशस्य प्रभोर्हदि पदं कुर्वन्ति ।
भक्तिमतः सतो हारांश्च विशिनष्टि सन्तः किंभूताः । मुक्तामयाः मुक्त आमयो ज
न्मजरामरणत्रासरूपो रोगो बाह्यो रोगो वा यैस्ते । तथा दीर्घा गुणा वैदुष्यकवित्वदा-
क्षिण्यादयो येषां ते । तथा सुवृत्ताः सदाचाराः । तथा नैर्मल्यं निर्दोषत्वं दधतः । तथा
फलानां सुकृतफलानामृद्धिं दधतः । हाराश्च किंभूताः । मुक्तामया मौक्तिकप्रचुराः ।
तथा दीर्घा गुणास्तन्तवो येषां ते । तथा सुष्नु वृत्ता वर्तुलाकाराः । तथा फलानां मुक्ता-
फलानामृद्धिं च दधतः । तथा भक्तिमन्तो विच्छित्तियुक्ताः । शब्दश्लेषोऽलंकारः ॥
गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् ।
सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं भगवन्भवेयम् ॥ ११ ॥
हे भगवन् । कदेति शेषः । भवत्प्रसादाद्भवानिव कदाहं भवेयम् । अहं किंभूतः । गु-
हाश्रितः गुहां देवखातबिलं तपोर्थमाश्रितः । तथा धर्मे सुकृते रतिर्यस्य । सः .......
। पुनः किंभूतोऽहम् । सत्ये सत्यवचने आहिता प्रीतिर्येन सः । पुनः किंभूतः ।
अहीना भक्तिः श्रीशिवोपासनासक्तिर्यस्य सः । भवानपि कथंभूतः । गुहेन कुमारेणा-
श्रितः । तथा धर्मे वृषे रतिर्यस्य सः । 'वृषो हि भगवान्धर्मः' इति श्रुतेः । गिरीश इति
प्रथां दधानः । पुनः किंभूतः । सती दक्षसुता । या हिमाचलगृहे जन्म गृहीत्वा पार्वती
जाता । तस्यां पार्वत्यामाहिता प्रीतिर्येन सः । अहीनैर्भुजगेन्द्रैर्वासुक्यादिभिर्भक्तिः
शोभा यस्य सः । अत्रापि शब्दश्लेषः ॥
......
यमेकमाराध्य महारिसंगमादसंशयं भक्तजनः प्रमुच्यते ।
उपस्थितस्तस्य भवत्प्रसादतः कथं हरेरुग्र महारिसंगमः ॥ १२ ॥
हे उम्र विभो, यमेकं हरिमाराध्य महारिसंगमान्महान्तश्च तेऽरयः शत्रवस्तेषां संग-
मस्तस्मान्निः संशयं भक्तजनः प्रमुच्यते मोक्षं लभते । तस्यैव हरेर्भवत्प्रसादतः कथं म
हारिसंगम उपस्थितः । महान्तोऽरा आश्रया यस्य तन्महारि । यद्वा महच्च तदरि चक्रं
सुदर्शनाख्यं तेन संगमः कथं भवत्प्रसादादुपस्थितः प्राप्तः । 'हरिस्ते साहस्रं कमलब
लिमाधाय पदयोः' इत्यत्र वृत्ते श्रीशिवभट्टारकेण प्रसन्नीभूतेन विष्णवे सुदर्शनाख्यं चक्रं
दत्तमिति पौराणिकाः । अत्रापि शब्दश्लेषेणाश्चर्यवर्णनम् ॥
सुदुर्लभोऽयं भवति ग्रहः पुनर्मुखेऽप्यसौ संनिहिता सरस्वती ।
इदं कुरुक्षेत्रमतीव पावनं किमर्थमर्थिन्युचिते विलम्बसे ॥ १३ ॥
हे विभो, भवति भवद्विषयेऽयं प्रहो हेवाको भक्तिसक्तिः । ममेति शेषः । मम पुनः
Digitized by Google