This page has not been fully proofread.

काव्यमाला ।
 
जंगद्विधेयं ससुरासुरं ते भवान्विधेयो भगवन्कृपायाः ।
सा दीनताया नमतां विधेया ममास्त्ययत्नोपनतैव सेति ॥ ५ ॥
 
२१०
 
..........
 
...........
 
जाने न शैथिल्यमुपैष्यवश्यं ममार्तिभङ्गे भगवंस्तथापि ।
विज्ञप्यसे कर्म ममैव माभून्मयि प्रसादप्रतिघस्तवेति ॥ ६ ॥
 
11
 
हे भगवञ्शंभो, अवश्यं मम दीनस्यार्तिभन्ने शैथिल्यं शिथिलतां कदापि नोपैषीति
यद्यपि जाने तथापि मया त्वं विज्ञप्यस एव निजाभिप्रायनिवेदने । किमर्थमित्याह - इति
हेतोः । इति किमिति, ममैव कर्म शुभाशुभत्वे संदिग्धं मयि विषये तव विभोः प्रसादप्रतिघः
प्रसादेऽनुग्रहे प्रतिघोऽर्गलं मा भूदित्यतो हेतोर्विज्ञप्यस इत्यर्थः ॥
 
पथ्यं च तथ्यं च भरक्षमं च स्निग्धं च मुग्धं च मनोहरं च ।
सलीलमुन्मील्य वचः प्रसन्नं प्रपन्नमाश्वासय चन्द्रमौले ॥ ७ ॥
 
पथ्यं भवामयध्वंसि तथ्यमप्रत्यावर्ति भरक्षमं जगदुद्धारभारक्षमं स्निग्धं प्रहजनेषु स
पक्षपातं मुग्धं मधुराक्षरं मनोहरं जगच्चेतोहरं सलीलं सविलासं प्रसन्नं प्रसादगुणयुक्तं वच
उन्मील्य प्रकाश्य हे चन्द्रमौले सुधांशुवतंस, प्रपन्नं शरणागतमर्थान्मामाश्वासय ॥
 
मधुद्रवार्द्रं विषमाहरामः पिण्डीनिगूढं बडिशं गिलामः ।
अन्तर्निविष्टोत्कटकण्टकौघं ग्रसामहे पौण्डुकपिण्डखण्डम् ॥ ८ ॥
 
यदामुखे कामधुरानजस्रं विपाकरूक्षान्विषयान्भजामः ।
विभो विदन्तोऽपि किमत्र कुर्मो जहाति सक्ति न मतिर्वराकी ॥ ९ ॥
 
(युगलकम्)
 
आमुखे आस्वादारम्भकाले कामधुरानीषन्मधुरान्विपाके पर्यवसाने रूक्षान्पर्यन्त वि
रसान्विषयाञ्शब्दादीन्यद्भजामः सेवामस्तदेतन्मधुद्रवेण क्षौद्ररसेनाई विषं गरलमा-
हरामो भक्षयामः । तथा तदेतत्पिण्ड्यान्नपिण्डेन निगूढं गुप्तं बडिशं मत्स्यवेधनं गिलामो
निगिरामः । मत्स्यवदित्यर्थः । तदेतदन्तर्मध्ये निविष्ट उत्कटः कठिनः कण्टकानमोघो
यस्य स तादृशं पौण्डूकपिण्डखण्डं पुण्ड्रदेशे भवः पौण्डू: पौण्ड्र एव पौण्ड्रक इक्षुविशेष-
स्तस्य पिण्डस्तस्य खण्डस्तं प्रसामहे । अज्ञानादिति शेषः सर्वत्र । 'रसाल इक्षुस्तद्भेदाः
पुण्ड्रकान्तारकादयः' इत्यमरः । हे विभो, एवं पूर्वोक्तप्रकारेण विदन्तोऽपि जानन्तोऽप्यत्र
विषये वयं किं कुर्मः । वराकी जडा मतिः सक्ति विषयेष्वासक्ति न जहाति ॥ युग्मम् ॥
 
१. अयं श्लोकः क पुस्तके टीकासमेतत्रुटितः २. 'पुण्ड्रकखण्डपिण्डम्' ख.
 
Digitized by Google