This page has been fully proofread once and needs a second look.

२०८
 
काव्यमाला ।
 
को वा बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो

रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः ॥ १४१ ॥
 

 
हे ईश्वर परमेश, अन्तर्मनसीति विमृशन्नप्यहं
 
.....जानुभ्या-

मुपसृत्य मेरुं मेरुगिरिमारोहति । तथा क उत्प्रत्याकाशतलाच्छथाछ्यामाकामुकबिम्बं चन्द्र-

बिम्बं गृह्णाति । न कोऽपि । तथा को बालिशभाषितैर्मूर्खवचनैर्विभोः स्वामिनः प्रसाद

प्राप्तुं प्रभवति शक्नोति ॥
 
...........
 
............
 

अस्य स्तोत्रस्योपसंहारश्लोकावाह-

 
धत्ते [^१]पौण्ड्रकशर्करापि कटुतां कण्ठे चिरं चर्विता
 

वैरस्यं वरनायिकापि कुरुते सक्त्या भृशं सेविता ।

उद्वेगं गगनापगापि जनयत्यन्तर्मुहुर्मज्जना-

द्विश्रद्धां मधुरापि पुष्यति कथा दीर्घेति विश्रम्यते ॥ १४२ ॥

 
पुण्ड्रदेशोद्भव इक्षुः पौण्डूः ड्रः। 'रसाल इक्षुस्तद्भेदाः पौण्ड्रकान्तारकादयः' इत्यमरः ।

पौण्ड् एव पौण्ड्रकः । तदुत्था शर्करा पौण्ड्रकशर्करापि चिरं चिरकालं चर्विता सती

कण्ठे कटुतां धत्ते । तथा वरनायिकापि वराङ्गनापि भृशं सक्त्या सेविता वैरस्यं नीर-

सत्वं कुरुते । तथान्तर्मुहुर्मुहुर्मज्जनाद्गगनापगा गङ्गाप्युद्वेगं वैरस्यं जनयति यथा तथा

मधुरापि कथा दीर्घा सती विश्रद्धां श्रद्धाभावं वैरस्यं पुष्यतीति मया विश्रम्यते विश्रामः

क्रियते ॥
 

 
इत्थं तत्तदनन्तसंततलसच्चिन्ताशतव्यायत-

व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् ।

तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माखिलं
 

वेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं ममातिक्रमम् ॥१४३॥

 
इत्थं पूर्वोक्तप्रकारेण तानि तान्यनन्तानि संततं लसन्ति यानि चिन्ताशतानि तैर्वि-

शेषेणायतो यो व्यामोहस्तेन व्यसनं तेनावसत्रंन्नं सावसादं मनो यस्य स तादृशस्तेन मया

यद्दानमाक्रन्दितं हे कारुण्यनिधे श्रीशिव, तद्धृदयेऽन्तर्निधेहि । हि यस्मात्कारणात्त्वम-

न्तरात्माखिलं सर्वमेवान्तःस्थं वेत्सि जानासि । अतः कारणात्प्रणयिनोऽर्थिनः शरणाग-

तस्य ममातिक्रममतिप्रागल्भ्यपुष्टवचनोपन्यासरूपं क्षन्तुमर्हसीति शिवम् ॥
 
१ 'पुण्ड्रक' ख.
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

दीनाक्रन्दनं नामैकादशं स्तोत्रम् ।
 
Digitized by Google
 

 
[^१[. 'पुण्ड्रक' ख.