This page has not been fully proofread.

२०८
 
काव्यमाला ।
 
को वा बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो
रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः ॥ १४१ ॥
 
हे ईश्वर परमेश, अन्तर्मनसीति विमृशन्नप्यहं
 
.....जानुभ्या-
मुपसृत्य मेरुं मेरुगिरिमारोहति । तथा क उत्प्रत्याकाशतलाच्छथामाकामुकबिम्बं चन्द्र-
बिम्बं गृह्णाति । न कोऽपि । तथा को बालिशभाषितैर्मूर्खवचनैर्विभोः स्वामिनः प्रसाद
प्राप्तुं प्रभवति शक्नोति ॥
 
...........
 
............
 
अस्य स्तोत्रस्योपसंहारश्लोकावाह-
धत्ते पौण्ड्रकशर्करापि कटुतां कण्ठे चिरं चर्विता
 
वैरस्यं वरनायिकापि कुरुते सक्त्या भृशं सेविता ।
उद्वेगं गगनापगापि जनयत्यन्तर्मुहुर्मज्जना-
द्विश्रद्धां मधुरापि पुष्यति कथा दीर्घेति विश्रम्यते ॥ १४२ ॥
पुण्ड्रदेशोद्भव इक्षुः पौण्डूः । 'रसाल इक्षुस्तद्भेदाः पौण्ड्रकान्तारकादयः' इत्यमरः ।
पौण्ड् एव पौण्ड्रकः । तदुत्था शर्करा पौण्ड्रकशर्करापि चिरं चिरकालं चविता सती
कण्ठे कटुतां धत्ते । तथा वरनायिकापि वराङ्गनापि भृशं सक्त्या सेविता वैरस्यं नीर-
सत्वं कुरुते । तथान्तर्मुहुर्मुहुर्मज्जनाद्गगनापगा गङ्गाप्युद्वेगं वैरस्यं जनयति यथा तथा
मधुरापि कथा दीर्घा सती विश्रद्धां श्रद्धाभावं वैरस्यं पुष्यतीति मया विश्रम्यते विश्रामः
क्रियते ॥
 
इत्थं तत्तदनन्तसंततलसच्चिन्ताशतव्यायत-
व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् ।
तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माखिलं
 
वेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं ममातिक्रमम् ॥१४३॥
इत्थं पूर्वोक्तप्रकारेण तानि तान्यनन्तानि संततं लसन्ति यानि चिन्ताशतानि तैर्वि-
शेषेणायतो यो व्यामोहस्तेन व्यसनं तेनावसत्रं सावसादं मनो यस्य स तादृशस्तेन मया
यद्दानमाक्रन्दितं हे कारुण्यनिधे श्रीशिव, तद्धृदयेऽन्तर्निधेहि । हि यस्मात्कारणात्वम-
न्तरात्माखिलं सर्वमेवान्तःस्थं वेत्सि जानासि । अतः कारणात्प्रणयिनोऽर्थिनः शरणाग-
तस्य ममातिक्रममतिप्रागल्भ्यपुष्टवचनोपन्यासरूपं क्षन्तुमर्हसीति शिवम् ॥
 
१ 'पुण्ड्रक' ख.
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
दीनाक्रन्दनं नामैकादशं स्तोत्रम् ।
 
Digitized by Google