2023-02-23 21:27:33 by ambuda-bot
This page has not been fully proofread.
११ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
२०७
च । अर्थादहम् । प्राप्तः अतः परं स्वामी स्वयमेव ज्ञास्यति । अवश्यमेव कृपां विधा
यामृतं प्रदास्यतीत्यर्थः ॥
आर्तिः शल्यनिभा दुनोति हृदयं नो यावदाविष्कृता
सूते लाघवमेव केवलमिय व्यक्ता खलस्याग्रतः ।
तस्मात्सर्वविदः कृपामृतनिधेरावेदिता सा विभो-
र्यद्युक्तं कृतमेव तत्परमतः स्वामी स्वयं ज्ञास्यति ॥ १३९ ॥
शल्य निभान्तः शल्यसदृशी आर्तिर्जन्मजरामरणभयार्तिः । सहृदयाघ्र इति शेषः ।
सहृदयाप्रे यावत्राविष्कृता न प्रकटीकृता ।
• केवलं वक्तुर्लाघत्रमेव
सूते न तु निर्वाहं यातीति हेतोः सर्वविदः सर्वज्ञस्य कृपापीयूषनिधिभूतस्य तव विभोः
पुरो निवेदिता । यद्युक्तमासीत्तन्मया कृतमेव । अतः परं स्वामी स्वयमेव ज्ञास्यति ।
ममार्तिमवश्यं दूरीकरिष्यतीत्यर्थः ॥
लेखाः सन्तु प्रसन्ना बुधसदसि शुचेरागमस्यास्तु लब्धि-
मिथ्यादृष्टिश्च मा भूदनुपधिरहतो दीर्घकालोऽस्तु भोगः ।
सम्याः सर्वेऽनुवृत्ति विदधतु तदपि न्यायतो नास्ति मुक्तिः
।
सम्यग्दर्शी प्रमाता रचयति न भवानीश्वरश्चेद्विचारम् ॥ १४० ॥
लेखा देवाः । लिख्यन्ते चित्रे ध्यानार्थ लेखा: । 'लेखा अदितिनन्दनाः' इत्यमरः ।
बुधसदसि देवसभायां लेखा ब्रह्मविष्ण्वाद्याः प्रसन्नाः सन्तु । तथा बुधसदसि देवसभायां
पण्डितसदसि वा शुचेनिर्दोषस्यागमस्य शास्त्रस्य लब्धिर्लाभोऽस्तु । निर्मलशास्त्राध्ययनमध्य-
स्त्वित्यर्थः । मिथ्यादृष्टिरज्ञानं नास्तिकता च मा भून्मास्तु । अनुपधिश्छद्मरहितो दीर्घका-
लोऽतिदीर्घकालस्थायी भोग ऐहिक आमुष्मिको वास्तु । 'व्याजदम्भोपधयश्छद्मकैतवे'
इत्यमरः । सर्वे सभ्या विपश्चितोऽनुवृत्तिं तदनुवर्तनं विदधत्वङ्गीकुर्वन्तु । तदप्येवमपि
सति न्यायत औचित्यवशान्मुक्तिरात्यन्तिकी दुःखनिवृत्तिर्मोक्षो न भवति । यावन्न स-
म्यग्दर्शी विश्वसाक्षी स्वयं प्रमाता भवानीश्वरः श्रीशिवभट्टारको विचारं न रचयति ।
भवान् ईश्वर इति द्वे पदे वा । अथ च लिख्यन्त इति लेखा लेख्यपत्राणि प्रसन्नाः प्र-
सन्नानि निर्मलानि सन्तु । बुधसदसि पण्डितसभायां शुचेरागमस्य प्राक्तनभूर्जस्य लब्धिः
प्राप्तिरस्तु । दृष्टिमिथ्या मा भूत्साक्षित्वमनुचितं मास्तु । भोगो भुक्तिरपि दीर्घकालो-
ऽस्तु दीर्घकालिक्यस्तु । दीर्घकालोऽपि किंभूतः । अनुपधिः कालरहितः । अहतो-
ऽन्येन केनापि न हतो न भुक्तः । तथा सर्वे सभ्या अनुवृत्तिमङ्गीकारमपि विदधतु कु-
वन्तु । एवं सत्यपीश्वरविचाराभावे न्यायनिर्वाहो न संभवतीत्यर्थान्तरम् ॥
जानुभ्यामुपसृत्य रुग्णचरणः को मेरुमारोहति
श्यामाकामुकबिम्बमम्बरतलादुत्त्य गृह्णाति कः ।
Digitized by Google