This page has not been fully proofread.

२०६
 
काव्यमाला ।
 
प्रति वधार्थ तत्र कः प्रतिविधिः प्रत्युपायः शक्यक्रियः कर्तु शक्यः । तत्र निन्दा
कापि नास्तीत्यर्थः । यत्र तु त्वं विभुः करुणार्णवः कृपार्णवस्तथा त्रिभुवनत्राणे प्रवीणो
दक्षस्तत्रापि द्रोग्धार आन्तराः षट् कामक्रोधाद्या वेत्प्रहरन्ति शरणागतं जनमेष परि-
भवः कस्य गर्हावहः । स्वामिन्, त्वमेवात्र विचारं कुर्वित्यर्थः ॥
किं शक्तेन न यस्य पूर्णकरुणापीयूषसिक्तं मनः
 
किं वा तेन कृपावता परहितं कर्तुं समथा न यः ।
शक्तिश्चास्ति कृपा च ते यमभयाद्भीतोऽपि दीनो जनः
 
प्राप्तो निःशरणः पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥१३७॥
यस्य पुंसः पूर्णा महती या करुणा कृपा सैव पीयूषममृतं तेन सिक्तं मनो यस्य
नास्ति तेन शक्तेन समर्थेनापि पुंसा किम् । न किंचिदित्यर्थः । तथा यः परहितं परोपकारं
कर्तुं न समर्थस्तेन कृपावता दयालुनापि पुंसा किम् । न किंचिदित्यर्थः । एतत्स्वयमेव
पूर्वपक्षीकृत्योत्तरपक्षमाह — हे विभो, शक्तिरनश्वरी कृपा चापारा तवैवास्ति । वदान्य-
प्रार्थनीयामर्थिप्राप्तिमध्याह – यमभयादित्यादि । यमभयात्कृतान्तत्रासाद्भीतोऽपि निः-
शरणो दीनो जनो मल्लक्षणः पुरोऽग्रे विभोः प्राप्तः । अतः परं स्वामी स्वयमेव ज्ञा-
स्यति । स्वयमेव निःशरणत्राणं विधास्यतीत्यर्थः ॥
 
भृङ्गारे करपुष्करप्रणयिनि स्वर्निम्नगानिर्झरे
 
संपूर्णे करुणारसे परिणतस्फारे तुषारत्विषि ।
अस्ति स्वादु च शीतलं च सुलभं पीयूषमोष॑च्छिदे
 
प्राप्तश्च प्रणयी पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥ १३८ ॥
 
कर एव पुष्करं कमलं तत्र प्रणयः प्राप्तिरस्यास्तीति तादृशे । भृङ्गारः । बिभर्ति
शोभामिति । 'भृङ्गारः कनकालुका' इत्यमरः । कनकमयी गलन्तिका भृङ्गारः । हे स्वा
मिन्, तव कराम्भोजस्थे भृङ्गारे कनकगलन्तिकायां स्वादु शीतलं च पोयूषममृतमो-
षच्छिदे । ओषो दाहः । 'उष दाहे' । भविनां भवदावाग्निजो दाइ ओषस्तस्य च्छि.
च्छेदनं तस्यै। सुलभं तव पुरस्तवाऽस्ति । 'देवं सुधाकलशसोमकरं' इति ध्यानोक्तेः ।
तथा स्वर्निम्नगानिर्झरे स्वर्गङ्गाप्रवाहे तव जटाजूटस्थे स्वादु शीतलं चामृतमस्ति । तथा
तव संपूर्ण करुणारसेऽपि स्वादु शीतलं च पीयूषमस्ति । परिणतस्फारे परिणतः परि
पूर्णः स्फार उल्लासो यस्य स तादृशे परिपूर्णे तुषारत्वित्रि चन्द्रमसि स्वादु शीतलं च
पीयूषमस्ति । 'देवं सुधाकलशसोमकरं' इत्युक्तेः । एतेषु सर्वेष्वपि स्वादु शीतलं चामृ-
तमोषच्छदे भक्तजनभवदावाग्निजदाहशान्त्यै तव विभोः पुरः स्थितम् । प्रणयी अर्थी
 
१. 'ऊष्मच्छिदे' ख.
 
Digitized by Google