2023-10-15 11:07:34 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
२०५
मम धाव
स्वतन्त्रं पादाश्रितं मां पाहि रक्ष ॥ एतद्वत्ताशयेन च मत्कृते शंभुकृतामनोहर (?) -
स्तवे ममापि वृत्तमेकम् - 'बाल्ये मोहमहान्धकारपटलग्लानेन्द्रियस्य प्रियावकाम्भो-
रुहसौरभोद्भवमदोन्मत्तात्मनो यौवने । वृद्धत्वे किल घोरयातिजरसा
तेस्त्वं चेन्नाद्य कृपां करोषि मम कस्त्रातास्ति शंभोऽपरः ॥" इति ।
आसीद्यावदखर्वगर्वकरण
स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् ।
अद्याकस्मिकपातकातरमतिः कं प्रार्थये कं श्रये
किं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि माम् ॥१३४॥
हे स्वामिन् । ममेति शेषः । अ
ग्राम इन्द्रियवर्गस्तेनाभिरामा रम्या यावन्ममाकृतिरासीत्तावन्मोहोऽज्ञानमेव तमोऽन्धका-
रस्तेन हतेन मया पुरः स्थितं श्वभ्रं महारन्धं न प्रेक्षितम् । 'रन्ध्रं श्वभ्रं वपा सुषिः' इ
त्यमरः । अद्य त्वकस्माद्भव आकस्मिको यः पातः पतनं तेन कातरा दीना मतिर्यस्य स
तादृशोऽहं कं प्रार्थये याचे । कं श्रये शरणं श्रयामि । किं शक्नोमि पुनरुत्थातुमसाम-
र्थ्यात् । किं करोमि । कृपां कुरु । आत्मने द्रुह्यत्यात्मद्रुट् तादृशं मां पाहि ॥
जात्यन्धः पथि संकटे प्रविचरन्हस्तावलम्बं विना
यातश्चेदवटे निपत्य विपदं तत्रापराधोऽस्य कः ।
घि
धिग्धिड्यां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति
स्निग्धे स्वामिनि मार्गदर्शिनि शठः श्वभ्रे पतत्येव यः ॥१३९॥
हे विभो, जात्यन्धो जन्मतोऽन्धः पुरुषस्तत्रापि संकटे पथि मार्गे हस्तावलम्बं विना
प्रविचरन्नव (त) टे प्रपाते निपत्य
भवतीत्यर्थः । इदं तु निन्दापात्रस्थानम् । तं मां धिग्धिगस्तु । तं कम् । शास्त्रमेव चक्षु-
स्तृतीयं तस्मिन्सत्यपि प्रज्ञैव प्रदीपस्तस्मिंश्च सति मार्गदर्शिनि सन्मार्गदर्शके स्निग्धे
स्वामिनि च सत्यप्ययं शठो मादृशः श्वभ्रे पतत्येव ॥
त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रह
द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः ।
यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु-
स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष गर्हावहः ॥ १३६ ॥
यत्र विषमेऽतिसंकटे पथि कश्चिदपि त्राता नास्ति तत्र द्रोग्धारो वधका यदि जा
Digitized by Google