This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२०५
 
हतं निर्नाशितम् । हे स्वामिन् संप्रतीदानीं जरसा विखसया जर्जरस्य जीर्णीकृतस्य
मम धावत्रतिवेगेन परिक्रामन्मृत्युर्यावन कर्णमुपैति कर्णाभ्यर्णमायाति तावदेवावशम-
स्वतन्त्रं पादाश्रितं मां पाहि रक्ष ॥ एतद्वत्ताशयेन च मत्कृते शंभुकृतामनोहर (?) -
स्तवे ममापि वृत्तमेकम् - 'बाल्ये मोहमहान्धकारपटलग्लानेन्द्रियस्य प्रियावकाम्भो-
रुहसौरभोद्भवमदोन्मत्तात्मनो यौवने । वृद्धत्वे किल घोरयातिजरसा प्रस्तस्य नष्टस्मृ
तेस्त्वं चेन्नाद्य कृपां करोषि मम कस्त्रातास्ति शंभोऽपरः ॥" इति ।
आसीद्यावदखर्वगर्वकरणप्रामाभिरामाकृति-
स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् ।
अद्याकस्मिकपातकातरमतिः कं प्रार्थये कं श्रये
 
किं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि माम् ॥१३४॥
हे स्वामिन् । ममेति शेषः । अखर्वोऽनल्पो गर्वोऽहंकारो यस्य स तादृग्यः करण-
ग्राम इन्द्रियवर्गस्तेनाभिरामा रम्या यावन्ममाकृतिरासीत्तावन्मोहोऽज्ञानमेव तमोऽन्धका-
रस्तेन हतेन मया पुरः स्थितं श्वभ्रं महारन्धं न प्रेक्षितम् । 'रन्ध्रं श्वभ्रं वपा सुषिः' इ.
त्यमरः । अद्य त्वकस्माद्भव आकस्मिको यः पातः पतनं तेन कातरा दीना मतिर्यस्य स
तादृशोऽहं कं प्रार्थये याचे । कं श्रये शरणं श्रयामि । किं शक्नोमि पुनरुत्थातुमसाम-
र्थ्यात् । किं करोमि । कृपां कुरु । आत्मने द्रुह्यत्यात्मद्रुट् तादृशं मां पाहि ॥
जात्यन्धः पथि संकटे प्रविचरन्हस्तावलम्बं विना
 
यातश्चेदवटे निपत्य विपदं तत्रापराधोऽस्य कः ।
घिग्धियां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति
 
स्निग्धे स्वामिनि मार्गदर्शिनि शठः श्वभ्रे पतत्येव यः ॥१३९॥
 
हे विभो, जात्यन्धो जन्मतोऽन्धः पुरुषस्तत्रापि संकटे पथि मार्गे हस्तावलम्बं विना
प्रविचरन्नव (त) टे प्रपाते निपत्य चद्विपदं मृतिं यातस्तत्रास्य कोऽपराधः । निन्दापात्रं न
भवतीत्यर्थः । इदं तु निन्दापात्रस्थानम् । तं मां धिग्धिगस्तु । तं कम् । शास्त्रमेव चक्षु-
स्तृतीयं तस्मिन्सत्यपि प्रज्ञैव प्रदीपस्तस्मिंश्च सति मार्गदर्शिनि सन्मार्गदर्शके स्निग्धे
स्वामिनि च सत्यप्ययं शठो मादृशः श्वभ्रे पतत्येव ॥
 
त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहतु पथि
 
द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः ।
यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु-
स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष गर्हावहः ॥ १३६ ॥
 
यत्र विषमेऽतिसंकटे पथि कश्चिदपि त्राता नास्ति तत्र द्रोग्धारो वधका यदि जा
 
Digitized by Google