This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभिः ।

अद्भुतां दधति नीरजस्कतां तं जगत्पतिमुमापतितिं स्तुमः ॥ १३ ॥
 

 
यस्य शस्येति । तं जगतां पतिमुमापतिं महेशं स्तुमः । तं कमित्याह – शस्यं स्तुत्यं

महो यस्य सः । तादृशस्य यस्य परमेशस्य पादकमलरेणुभिर्योगमवाप्य । भक्ता इति

शेषः । अद्भुतां नीरजस्कतां निर्गतरजोगुणत्वं दधति । 'रजो गुणे च रेणौ च योषिता-

मार्तवेऽपि च' इति मङ्खः । रजस्तमोरहिता एव सात्त्विका मुक्ता इत्यर्थः । ये हि सर-

जस्कास्ते कथं नीरजस्काः स्युरित्यद्भुतम् । अत्र चरणाब्जरजोभिरित्युच्यमाने यति

भङ्गभयाद्रेणुभिरिति प्रक्रमभङ्गेऽपि भक्तिविषये न दोषः ॥
 

 
चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् ।

अभ्युपेतघनकालशात्रवं नीलकण्ठमतिकौतुकं स्तुमः ॥ १४ ॥
 
9
 

 
चार्विति । वयं तं नीलकण्ठं शितिकण्ठं स्तुमः । किंभूतम् । अतिकौतुकम् । अति

शयेन कौतुकं यस्य स तम् । अत्यद्भुतमित्यर्थः । किंभूतम् । चार्वी या चन्द्रकला तयोपशो-

भितम् । तथा भोगिभिः सर्वैपैर्वासुक्याद्यैः सार्धे गृहीतं सौहृदं येन । तथा अभ्युपेतमङ्गी-

कृतं घनेन कालेनान्तकेन सह शात्रवं शत्रुभावो येन स तम् । अथ च नीलकण्ठं मयू-

रम् । 'नीलकण्ठो भुजंगभुक्' इत्यमरः । तस्याद्रुभुतत्वमाह । तत्पक्षे चारवो ये चन्द्रका

बर्हास्तेषां लयो माशस्तेनोपशोभितम् । मयूरस्य चन्द्रकलयेन शोभा न युक्ता । अत

एवाद्भुतत्वम् । पुनश्च । भोगिभिः सर्वैःपैः सह गृहीतं सौहृदं येन । मयूरो हि भुजंगभुक् ।

अथ अभ्युपेतमङ्गीकृतं घनकालेन वर्षासमयेन सह शात्रवं शत्रुभावो येन । वर्षाकालेन

सह मयूरस्य शत्रुत्वं न विद्यते । किं तु प्रीतिरेवेत्यद्भुतत्वम् । श्लेषमूलो व्यतिरेकः ॥
 

 
इच्छयैव भुवनानि भावयन्यः प्रियोपकरणग्रहोऽपि सन् ।

अप्रियोपकरणग्रहोऽभवत्तं स्वशक्तिसचिवं शिवं स्तुमः ॥ १५ ॥
 

 
इच्छयैवेति । स्वा चासौ शक्तिः शक्तितत्त्वम् । 'जगत्स्रष्टुमिच्छां परिगृहीतवतः

परमेश्वरस्य प्रथमस्पन्द एवेच्छा यास्ति तच्छक्तितत्त्वम्' इति पराप्रावेशिकायाम् ।

शक्तिः सचिवो यस्य स तम् । स्वशक्तियुक्तं तं श्रीशिवं स्तुमः । तं कम् । यः परम-

शिव इच्छयैव इच्छाशक्त्यैव मुख्यया भुवनानि अधः कालाग्निरुद्रभुवनादारभ्य शिव-

भुवनान्तं सचतुर्विंशतिशतद्वयमितानि भुवनानि भावयन्संपादयन् । 'कलाः पञ्च च

विज्ञेयास्तत्त्वं षट्त्रिंशदेव च । सचतुर्विंशति ज्ञेयं भुवनानां शतद्वयम् ॥" इति श्रीस्व-

च्छन्दोक्तेः । किंभूतः । प्रियेत्या द्विद्रिविशिष्टः । प्रिय उपकरणेषूपकारेषु ग्रहो हेवाको यस्य

सः । तादृशोऽपि सन्नप्रियोपकरणग्रहः । न प्रिय उपकरणेषु साधनेषु ग्रहो ग्रहणं यस्य

स तादृशोऽभवत् । तक्ष्णो हि वास्यादिभिर्निर्माणसाधनैर्भवितव्यम् । अत्रापि विरोधा-

भासः - यः प्रियोपकरणग्रहः स कथमप्रियोपकरणग्रहो भवतीति ॥
 
Digitized by Google