This page has not been fully proofread.

स्तुतिकुसुमाञ्जलिः ।
 
यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभिः ।
अद्भुतां दधति नीरजस्कतां तं जगत्पतिमुमापति स्तुमः ॥ १३ ॥
 
यस्य शस्येति । तं जगतां पतिमुमापतिं महेशं स्तुमः । तं कमित्याह – शस्यं स्तुत्यं
महो यस्य सः । तादृशस्य यस्य परमेशस्य पादकमलरेणुभिर्योगमवाप्य । भक्ता इति
शेषः । अद्भुतां नीरजस्कतां निर्गतरजोगुणत्वं दधति । 'रजो गुणे च रेणौ च योषिता-
मार्तवेऽपि च' इति मङ्खः । रजस्तमोरहिता एव सात्त्विका मुक्ता इत्यर्थः । ये हि सर-
जस्कास्ते कथं नीरजस्काः स्युरित्यद्भुतम् । अत्र चरणाब्जरजोभिरित्युच्यमाने यति
भङ्गभयाद्रेणुभिरिति प्रक्रमभङ्गेऽपि भक्तिविषये न दोषः ॥
 
चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् ।
अभ्युपेतघनकालशात्रवं नीलकण्ठमतिकौतुकं स्तुमः ॥ १४ ॥
 
9
 
चाविति । वयं तं नीलकण्ठं शितिकण्ठं स्तुमः । किंभूतम् । अतिकौतुकम् । अति
शयेन कौतुकं यस्य स तम् । अत्यद्भुतमित्यर्थः । किंभूतम् । चार्वी या चन्द्रकला तयोपशो-
भितम् । तथा भोगिभिः सर्वैर्वासुक्याद्यैः सार्धे गृहीतं सौहृदं येन । तथा अभ्युपेतमङ्गी-
कृतं घनेन कालेनान्तकेन सह शात्रवं शत्रुभावो येन स तम् । अथ च नीलकण्ठं मयू-
रम् । 'नीलकण्ठो भुजंगभुक्' इत्यमरः । तस्याद्रुतत्वमाह । तत्पक्षे चारवो ये चन्द्रका
बर्हास्तेषां लयो माशस्तेनोपशोभितम् । मयूरस्य चन्द्रकलयेन शोभा न युक्ता । अत
एवाद्भुतत्वम् । पुनश्च । भोगिभिः सर्वैः सह गृहीतं सौहृदं येन । मयूरो हि भुजंगभुक् ।
अथ अभ्युपेतमङ्गीकृतं घनकालेन वर्षासमयेन सह शात्रवं शत्रुभावो येन । वर्षाकालेन
सह मयूरस्य शत्रुत्वं न विद्यते । किं तु प्रीतिरेवेत्यद्भुतत्वम् । श्लेषमूलो व्यतिरेकः ॥
 
इच्छयैव भुवनानि भावयन्यः प्रियोपकरणग्रहोऽपि सन् ।
अप्रियोपकरणग्रहोऽभवत्तं स्वशक्तिसचिवं शिवं स्तुमः ॥ १५ ॥
 
इच्छयैवेति । स्वा चासौ शक्तिः शक्तितत्त्वम् । 'जगत्स्रष्टुमिच्छां परिगृहीतवतः
परमेश्वरस्य प्रथमस्पन्द एवेच्छा यास्ति तच्छक्तितत्त्वम्' इति पराप्रावेशिकायाम् ।
शक्तिः सचिवो यस्य स तम् । स्वशक्तियुक्तं तं श्रीशिवं स्तुमः । तं कम् । यः परम-
शिव इच्छयैव इच्छाशक्त्यैव मुख्यया भुवनानि अधः कालाग्निरुद्रभुवनादारभ्य शिव-
भुवनान्तं सचतुर्विंशतिशतद्वयमितानि भुवनानि भावयन्संपादयन् । 'कलाः पञ्च च
विज्ञेयास्तत्त्वं षट्त्रिंशदेव च । सचतुर्विंशति ज्ञेयं भुवनानां शतद्वयम् ॥" इति श्रीस्व-
च्छन्दोक्तेः । किंभूतः । प्रियेत्या द्विविशिष्टः । प्रिय उपकरणेषूपकारेषु ग्रहो हेवाको यस्य
सः । तादृशोऽपि सन्नप्रियोपकरणग्रहः । न प्रिय उपकरणेषु साधनेषु ग्रहो ग्रहणं यस्य
स तादृशोऽभवत् । तक्ष्णो हि वास्यादिभिर्निर्माणसाधनैर्भवितव्यम् । अत्रापि विरोधा-
भासः - यः प्रियोपकरणग्रहः स कथमप्रियोपकरणग्रहो भवतीति ॥
 
Digitized by Google