This page has not been fully proofread.

२०४
 
काव्यमाला ।
 
रन्तमिव यमकिंकरं पश्यता मम धृतिश्चलति गतिरपि स्वलति मूर्तिरुद्वेलति कम्पते
स्थितिरासनं शय्यापि ज्वलति निर्वृतिः सुखं विगलति स्मृतिमलति निहुता भवति ॥
दुर्गे यत्सुगमत्वमेति भजते दूरं यदम्यर्णतां
यत्क्रीडोपवनत्वमेति मरुभूमिंत्रायते यद्रिपुः ।
यस्याः सा भुवि शक्तिरप्रतिहता सार्तिस्त्वदाक्रन्दने
 
स्वामिन्मामनुदत्कृपापि नुदतु त्वां मत्समाश्वासने ॥ १३१ ॥
यद्यस्या आतें: सामर्थ्याद्दुर्गमपि महागहनमपि सुगमत्वमेति । तथा यस्या आर्तेः
सामर्थ्याहूरमपि निकटतां भजते । मरुभूमिरपि क्रीडोपवनत्वं प्रमदवनत्वमेति । यस्या
आर्तेः सामर्थ्याद्रिपुरपि शत्रुरपि मित्रायते । इत्येवंप्रकारेण भुवि भूमौ यस्या आर्तेरप्र-
तिहता दुर्निवारा शक्तिः सार्तिस्त्वदाक्रन्दने त्वां विभुं प्रत्याक्रन्दने पूत्करणे मामनु-
दत्प्रेरयामास । 'नुद प्रेरणे ।' हे दयालो, ममाश्वासने कृपापि त्वां नुदतु प्रेरयतु । सर्वथा
मामार्त समाश्वासयेत्यर्थः । तथा च ममापि वृत्तमेकं 'दर्शनस्पर्शनालापैः परीक्षेन्नवरोगि-
णम्' इत्यायुर्वेदवचनानुसारेण – 'मां पश्य कोमलदृशातुलतापतप्तं मामातुरं भवरुजा
स्पृश पाणिना लम् ।
 
द्वारि श्रीश्च सरस्वती च वसतः स्वामिंस्तवास्तक्रुधौ
मां तु श्रीर्भवदङ्घ्रिविष्टरतले नित्यप्ररूढस्थितिम् ।
यावन्मात्रसरस्वतीपरिचयद्वेषादहासीदतो
 
वहि दुर्वह मुद्वहामि हृदये ग्लायन्नुदन्वानिव ॥ १३२ ॥
 
..........
 
हे स्वामिन्, अस्तक्रुधौ गतरोषे श्रीश्च सरस्वती चेत्युभे अपि तव द्वारि वसतः ।
तुः पक्षान्तरे । भवदग्रिविष्टरतले भवत्पादासनतले नित्यं सदैव प्ररूढस्थितिं स्थितिमन्तं
यावन्मात्रं स्वल्पमात्रं यः सरस्वत्याः परिचयस्तस्य द्वेषस्तस्माच्छ्रीलक्ष्मीर्मामत्यजत् ।
अत एव हृदये मनसि वह्निं वडवाभिमुहन्
 
"'
 
नाथ प्राथमिकं विवेकरहितं तिर्यग्वदस्तं वय -
स्वारुण्य विहतं विराधितवधूवित्रम्भणारम्भणैः ।
स्वामिन्संप्रति जर्जरस्य जरसा यावन्न धावन्नयं
 
मृत्युः कर्णमुपैति तावदवशं पादाश्रितं पाहि माम् ॥ १३३ ॥
 
...
 
.........
 
हे नाथ, प्रथमं भवं प्राथमिकं बाल्यं वयो विवेकेन कार्याकार्यविचारेण रहितं मया
तिर्यग्वत्पशवदस्तमतिवाहितम् । तथा विराधितेत्यादि । विराधिता प्रणयकोपयुक्ता
चासौ वधूस्तस्या विस्रम्भणमाश्वासनं तस्यारम्भणैर्मुहुर्मुहुरारम्भैस्तारुण्यं वयो मया वि
१. 'विसम्भणाडम्बरैः' ख.
 
Digitized by Google