This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२०३
 
विश्रान्तिर्नास्ति । तथा गलति क्षयमागच्छति वित्ते धने च सति । तथा प्राक्प्रवृत्ते पू

र्वजन्मोपार्जिते च कुवृत्ते दुष्टाचारे फलति सति । मम चित्ते विश्रान्तिर्न भवति तेन

हेतुनात्यन्धं हैहे भव विभो, सपदीदानीं दोर्घदुःखमेवान्धकूपस्तत्र पतितं मामुद्धर्तुतुं त्वां

दयार्णवं विना कोऽन्यः प्रभवति समर्थो भवति ॥
 

 
येषामेषा तनुधनलवप्रार्थनानर्थकन्था
 

पन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् ।

तेषामेषामकृपण कृपाभाजनानां जनाना-

माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥ १२८ ॥

 
एषा तनुधनलवेति तनुरल्पो यो धनलवस्तस्य याः प्रार्थना याच्त्राञ्चास्ता एवानर्थकन्था

एषा आनन्दि आनन्दः परमानन्दो विद्यते यत्र तत्परमुत्कृष्टं स्थानं लब्धुं पन्थानं
मार्ग

मार्गं
येषां न प्रदिशति न ददाति अकृपण वदान्य, तेषामेषामस्मल्लक्षणानां दयापात्राणां

जनानामाशापाशेनाकुलितमनसामिष्टां स्निग्धां सानुग्रहां दृष्टिटिं निधेहि मुश्च ॥

 
उदश्ञ्चय मुखं मनागभयघोषमुद्घोषय
 

प्रयच्छ विशदां दृशं [^१]गतिविहीनमाश्वासय ।

किमन्यदयमागतः कुपितदृष्टिरुत्कंधरः
 

कृतान्त इति मा स्म भूरविरलावलेपालसः ॥ १२९ ॥
 

 

 
हे विभो, मनागीषन्मुखमुदश्ञ्चय प्रकटीकुरु दर्शय । त्वं च मां प्रत्यभयघोषं मा भैषी-

रिति वचनमुद्घोधोषयोच्चै रुच्चारय । त्वं विशदां निर्मलां दृशं प्रयच्छ देहि । त्वं च गति-

विहीनमगतिकमा श्वासय किमन्यदधिकं वच्मि क्रन्दामि च । उच्चैः कंधरा यस्य स

उत्कंधरः कुपितदृष्टिः क्रोधोद्धुरदृष्टिरयं कृतान्तो यम आग इत्यतो हेतोरविरलावले-

पेन घनावलेपेनालसो मा स्म भूः । एतद्वृत्तानुसारेण ममाप्येकं वृत्तम् - 'त्रैलोक्योद्ध-

रणैकदक्ष करुणासिन्धो बतेमं जनं त्वं श्वेताभयदानविश्रुतयशः स्तोमो न चेद्रक्षसि । क्रु-

ध्यत्कालकराल हुंकृतिपरित्रस्तोऽहमुन्चेच्चैस्तरामब्रह्मण्यमुदीरयाम्यशरणः स्वामिन्नये कं
 
प्रति ॥'
 

 
मुहुः किमपरं ब्रुवे भुजगपाशपाणिणिं पुरः-

स्फुरन्तमिव रोषणं रविजकिंकरं पश्यतः ।

धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेलति
स्थैि
ल्लति
[^२]स्थि
तिर्ज्वलति निर्वृतिर्विंविगलति स्मृतिर्मीलति ॥ १३० ॥
 
है

 
हे
विभो, मुहुः पुनः किं ब्रुवे । रोषणं क्रुद्धं भुजगनरापाशपाणिं सर्पपाशहस्तं पुरःस्फु-

 
[^
]. 'इधृतिविहीनं ' स्त्र.
[^
]. 'क्षितिः' ख.
 

 
Digitized by Google