This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२०३
 
विश्रान्तिर्नास्ति । तथा गलति क्षयमागच्छति वित्ते धने च सति । तथा प्राक्प्रवृत्ते पू
र्वजन्मोपार्जिते च कुवृत्ते दुष्टाचारे फलति सति । मम चित्ते विश्रान्तिर्न भवति तेन
हेतुनात्यन्धं है भव विभो, सपदीदानीं दोर्घदुःखमेवान्धकूपस्तत्र पतितं मामुद्धर्तु त्वां
दयार्णवं विना कोऽन्यः प्रभवति समर्थो भवति ॥
 
येषामेषा तनुधनलवप्रार्थनानर्थकन्था
 
पन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् ।
तेषामेषामकृपण कृपाभाजनानां जनाना-
माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥ १२८ ॥
एषा तनुधनलवेति तनुरल्पो यो धनलवस्तस्य याः प्रार्थना याच्त्रास्ता एवानर्थकन्था
एषा आनन्दि आनन्दः परमानन्दो विद्यते यत्र तत्परमुत्कृष्टं स्थानं लब्धुं पन्थानं
मार्ग येषां न प्रदिशति न ददाति अकृपण वदान्य, तेषामेषामस्मल्लक्षणानां दयापात्राणां
जनानामाशापाशेनाकुलितमनसामिष्टां स्निग्धां सानुग्रहां दृष्टि निधेहि मुश्च ॥
उदश्चय मुखं मनागभयघोषमुद्घोषय
 
प्रयच्छ विशदां दृशं गतिविहीनमाश्वासय ।
किमन्यदयमागतः कुपितदृष्टिरुत्कंधरः
 
कृतान्त इति मा स्म भूरविरलावलेपालसः ॥ १२९ ॥
 

 
हे विभो, मनागीषन्मुखमुदश्चय प्रकटीकुरु दर्शय । त्वं च मां प्रत्यभयघोषं मा भैषी-
रिति वचनमुद्घोषयोच्चै रुच्चारय । त्वं विशदां निर्मलां दृशं प्रयच्छ देहि । त्वं च गति-
विहीनमगतिकमा श्वासय किमन्यदधिकं वच्मि ऋन्दामि च । उच्चैः कंधरा यस्य स
उत्कंधरः कुपितदृष्टिः क्रोधोद्धुरदृष्टिरयं कृतान्तो यम आगन इत्यतो हेतोरविरलावले-
पेन घनावलेपेनालसो मा स्म भूः । एतद्वृत्तानुसारेण ममाप्येकं वृत्तम् - 'त्रैलोक्योद्ध-
रणैकदक्ष करुणासिन्धो बतेमं जनं त्वं श्वेताभयदानविश्रुतयशः स्तोमो न चेद्रक्षसि । क्रु-
ध्यत्कालकराल हुंकृतिपरित्रस्तोऽहमुन्चेस्तरामब्रह्मण्यमुदीरयाम्यशरणः स्वामिनये कं
 
प्रति ॥'
 
मुहुः किमपरं ब्रुवे भुजगपाशपाणि पुरः-
स्फुरन्तमिव रोषणं रविजकिंकरं पश्यतः ।
धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेलति
स्थैितिर्ज्वलति निर्वृतिर्विंगलति स्मृतिमलति ॥ १३० ॥
 
है विभो, मुहुः पुनः किं ब्रुवे । रोषणं क्रुद्धं भुजगनराशपाणिं सर्पपाशहस्तं पुरःस्फु-
१. 'इतिविहीनं ' स्त्र. २. 'क्षितिः' ख.
 
Digitized by Google