This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
अहो तत्त्वज्ञोऽहं करतलविलीनैकफणिनः

समुन्त्रस्यन्कालात्क्रमकवलितैकैकभविनः ।

महाकालं सर्वावयवसुलभानल्पभुजगं
 

सकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥ १२५ ॥
 

 
अहो आश्चर्ये । करतले विलीन एकः फणी फणिपाशो यस्य स तादृशात् । तथा

क्रमेण यथाक्रमं कवलितो ग्रस्त एक एको भवी देही येन स तादृशात् । कालात्समुत्र•
स्यन्त्र
न्त्र
स्यन्न
हं भीरुहृदयो भीतहृदयः सन्सर्वावयवेषु करचरणादिषु सुलभा अनल्पा महान्तो

भुजगा: सर्पा: शेषादयो यस्य स तादृशम् । तथा सकृदेकवारमेव विश्वप्ग्रासप्रवणमतिं

गास ग<flag></flag>सप्रवृत्तमतिं महाकालं कालाग्निरुद्रं श्रीशिवभहाट्टारकं शरणं यदभ्येमि गच्छामि

तत्तत्वज्ञः परमार्थज्ञोऽस्मि । अत्रापि प्राग्वद्योजना ॥
 
1
 
२०१
 

 
शृङ्गी यत्र स्फटिकशिखरी यत्र शृङ्गी पिनाकः
 

शृङ्गी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः ।

तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भः
 

प्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥ १२३ ॥
 

 
यत्र शिवभट्टारकद्वारि भर्तुः श्रीशंभोर्वल्लभः प्रेमभाजनं स्फटिकशिखरी कैलासः शृङ्गी

शिखरी भवति । अथ च शृङ्गी गर्वी । 'शृङ्गं प्राधान्यसान्वोच गर्वे च' इति कोषः ।

यत्र पिनाकोऽजगवं धनुर्भर्तुः श्रीशिवस्य वल्लभः सोऽपि शृङ्गी शृङ्गेन रचितो दपोंर्पोद्ध-

तश्च । तथा सोऽपि वृषभ: स्वामिनो वल्लभः शृङ्गी शृङ्गद्वयवान् गर्वी च स्फुरति तत्र

महाराजद्वारि त्रस्तो भीतः प्रकृत्या स्वभावेन सरल ऋजुः स्वल्पवागस्यन्दगद्गदवचनो-

ऽप्रगल्भोऽप्रौढः प्राज्ञो धीमानुचितं सेवासमयं सेवावसरं स्वामिनः श्रीशंभोरहं प्रार्थये ।

अतोऽपि नितरां हसनीयोsस्मीत्यर्थः । एतद्द्वृत्ताभिप्रायेण मदीयमपि वृत्तद्वयम् – 'दोषा-

करः शिरसि कण्ठतले द्विजिह्वः पादान्तगौगोऽपि सततं खलु यस्य शृङ्गी । द्वारान्तिकं

कथमुपैमि हि भैरवस्य तस्य प्रभोविंर्विशरणः कृपणोऽतिसाधुः ॥,' 'दोषाकरः स कुटिलो

विमतिश्च शृङ्गी कोपी सदा बहुतरामपि स द्विजिह्वः । एते यदि प्रियतमा भवतस्तदा-

हमेकोऽपि तादृगिह मां शिव किं त्यजेथाः ॥'
 

 
विश्रान्तिर्न क्वचिदपि विपीद्ग्रीष्मभीष्मोष्मतप्ते
 

चित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते ।

तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपे
 

मामुद्धर्तुं प्रभवति भव त्वां दयाब्धिधिं विना कः ॥ १२७ ॥
 

 
हे विभो, विपदेव संतापकारित्वाद्रीष्मो निदाघस्तस्य भीष्मोष्मणा तप्ते मम चित्ते
 
Digitized by Google