2023-02-23 21:27:32 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
अहो तत्त्वज्ञोऽहं करतलविलीनैकफणिनः
समुत्रस्यन्कालात्क्रमकवलितैकैकभविनः ।
महाकालं सर्वावयवसुलभानल्पभुजगं
सकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥ १२५ ॥
अहो आश्चर्ये । करतले विलीन एकः फणी फणिपाशो यस्य स तादृशात् । तथा
क्रमेण यथाक्रमं कवलितो ग्रस्त एक एको भवी देही येन स तादृशात् । कालात्समुत्र•
स्यन्त्रहं भीरुहृदयो भीतहृदयः सन्सर्वावयवेषु करचरणादिषु सुलभा अनल्पा महान्तो
भुजगा: सर्पा: शेषादयो यस्य स तादृशम् । तथा सकृदेकवारमेव विश्वप्रासप्रवणमतिं
जगास प्रवृत्तमतिं महाकालं कालाग्निरुद्रं श्रीशिवभहारकं शरणं यदभ्येमि गच्छामि
• तत्तत्वज्ञः परमार्थज्ञोऽस्मि । अत्रापि प्राग्वद्योजना ॥
1
२०१
शृङ्गी यत्र स्फटिकशिखरी यत्र शृङ्गी पिनाकः
शृङ्गी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः ।
तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भः
प्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥ १२३ ॥
यत्र शिवभट्टारकद्वारि भर्तुः श्रीशंभोर्वल्लभः प्रेमभाजनं स्फटिकशिखरी कैलासः शृङ्गी
शिखरी भवति । अथ च शृङ्गी गव । 'शृङ्गं प्राधान्यसान्वोच गर्वे च' इति कोषः ।
यत्र पिनाकोऽजगवं धनुर्भर्तुः श्रीशिवस्य वल्लभः सोऽपि शृङ्गी शृङ्गेन रचितो दपोंद्ध-
तश्च । तथा सोऽपि वृषभ: स्वामिनो वल्लभः शृङ्गी शृङ्गद्वयवान् गर्वी च स्फुरति तत्र
महाराजद्वारि त्रस्तो भीतः प्रकृत्या स्वभावेन सरल ऋजुः स्वल्पवागस्यन्दगद्गदवचनो-
ऽप्रगल्भोऽप्रौढः प्राज्ञो धीमानुचितं सेवासमयं सेवावसरं स्वामिनः श्रीशंभोरहं प्रार्थये ।
अतोऽपि नितरां हसनीयोsस्मीत्यर्थः । एतद्द्वृत्ताभिप्रायेण मदीयमपि वृत्तद्वयम् – 'दोषा-
करः शिरसि कण्ठतले द्विजिह्वः पादान्तगौऽपि सततं खलु यस्य शृङ्गी । द्वारान्तिकं
कथमुपैमि हि भैरवस्य तस्य प्रभोविंशरणः कृपणोऽतिसाधुः ॥,' 'दोषाकरः स कुटिलो
विमतिश्च शृङ्गी कोपी सदा बहुतरामपि स द्विजिह्वः । एते यदि प्रियतमा भवतस्तदा-
हमेकोऽपि तादृगिह मां शिव किं त्यजेथाः ॥'
विश्रान्तिर्न क्वचिदपि विपीष्मभीष्मोष्मतप्ते
चित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते ।
तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपे
मामुद्धर्तुं प्रभवति भव त्वां दयाब्धि विना कः ॥ १२७ ॥
हे विभो, विपदेव संतापकारित्वाद्रीष्मो निदाघस्तस्य भीष्मोष्मणा तप्ते मम चित्ते
Digitized by Google