This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२०१
 
ऽहं सुधियां मनीषिणां मध्येऽधिकः । इत्यत्रापि निन्दा स्तुतिपर्यवसायिनी । कामारिं

सकामः कथमाश्रयतीति विरोधः । अन्यार्थत्वेन तदभावः ॥
 

 
पद्माश्रितः शतषृधृतिश्चतुराननोऽपि

यस्मात्पराभवमवापदवाच्यमेव ।

त्यक्तः श्रिया गतधृतिर्मृदुमन्दवक्त्रः

प्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥ १२२ ॥
 

 
पद्मं निजासनमाश्रितः श्लेषोक्त्या पद्मां रमां श्रितश्च । शतं धृतयोऽस्य शतधृतिर्दे-

श्यामिति (?) क्षीरस्वामी । चत्वार्याननानि यस्य स चतुराननः श्लेषेण चतुरमाननं यस्य

स तादृशोऽपि ब्रह्मा यस्मादीश्वरादवाच्यं वक्तुमनर्हमेव पराभवं शिरश्छेदरूपमवाप ।

'तवैश्वर्यं यत्नाद्यदुपरि विरिश्ञ्चो हरिरधः परिच्छेत्तुं यातौ' इत्यत्रापि वृत्ते एत-

दाकर्ण्याप्यहं प्राज्ञो धीमांस्तद्विपरीतः श्रिया व्यक्तः । अपद्माश्रित इत्यर्थः । एवमप्ग्रे-

ऽपि । गतधृतिर्निर्धैर्यः । मृदुमन्दं वर्षक्त्रं यस्य स तादृशोऽपि तमेवेश्वरं परमेश्वरमनुग्रह-

मर्थये । इत्यत्रापि प्राग्वत् ॥
 

 
आ जन्म कर्म विरचय्य फलं यदाप्तं
 

हृत्वा क्षणात्तदखिलं चिरकालभोग्यम् ।

यः स्वीकरोत्यपुनरागमनाय भक्तं
 

सेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥ १२३ ॥
 

 
जन्मन आरभ्य आ जन्म कर्म शुभाशुभं विरचय्य । भक्तेनेति शेषः । भक्तजनेन

यत्फलं शुभाशुभमाप्तं तदेव चिरकालभोग्यमखिलं फलं क्षणाद्धृत्वा अपुनरागमनाय

ऐकान्तिकात्यन्तिकदुःखनिवृत्तये यो विभुर्भक्तं भक्तजनं स्वीकरोति निजसायुज्यं प्राप-

यति । अहो आश्चर्ये । तमेवेश्वरं मतिमत्तमो बुद्धिमत्तमः सेवे । अत्रापि प्राग्वद्योजना ॥

 
श्मशानैकस्थानव्यसनमनलोत्तालनयनं

विषज्योतिर्त्ज्वालाजटिलकुटिलव्यालवलयम् ।
 

विभुं मुण्डश्रेणीविकटमुकुटं भीरुहृदयः
 

श्रयन्भीमं धीमानहमहसनीयः कृतषिधियाम् ॥ १२४ ॥

 
श्मशानमेवैकं प्रियतमं स्थानमस्य तादृशस्तम् । तथानलेनाग्निनोत्तालमुद्भटं नयनं

तृतीयं यस्य स तादृशस्तम् । तथा विषज्योतिर्ज्वालाभिर्विषा भिग्निज्वालाभिर्जटिलो जटा-

वानिव यः कुटिलो व्यालः सर्पो वासुकिः स एव वलयः कङ्कणं यस्य स तादृशस्तम् ।

तथा मुण्डानां महाप्रलयेषु संहृतानां ब्रह्मादीनां ये मुण्डाः कपालास्तेषां श्रेण्येव विकटो

विस्तीर्णो मुकुटो यस्य स तादृशं भीमं श्रीशिवं भयानकं च श्रयन्नहं कृतधियां विदुषा-

महसनीयोऽहास्योऽस्मि । काक्कावा हास्योऽस्मि किं नेत्यर्थः ॥
 
२६
 
Digitized by Google