This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२०१
 
ऽहं सुधियां मनीषिणां मध्येऽधिकः । इत्यत्रापि निन्दा स्तुतिपर्यवसायिनी । कामारिं
सकामः कथमाश्रयतीति विरोधः । अन्यार्थत्वेन तदभावः ॥
 
पद्माश्रितः शतषृतिश्चतुराननोऽपि
यस्मात्पराभवमवापदवाच्यमेव ।
त्यक्तः श्रिया गतधृतिर्मृदुमन्दवक्त्रः
प्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥ १२२ ॥
 
पद्मं निजासनमाश्रितः श्लेषोक्त्या पद्मां रमां श्रितश्च । शतं धृतयोऽस्य शतधृतिर्दे-
श्यामिति (?) क्षीरस्वामी । चत्वार्याननानि यस्य स चतुराननः श्लेषेण चतुरमाननं यस्य
स तादृशोऽपि ब्रह्मा यस्मादीश्वरादवाच्यं वक्तुमनईमेव पराभवं शिरश्छेदरूपमवाप ।
'तवैश्वर्य यत्नाद्यदुपरि विरिश्चो हरिरधः परिच्छेत्तुं यातौ' इत्यत्रापि वृत्ते एत-
दाकर्ण्याप्यहं प्राज्ञो धीमांस्तद्विपरीतः श्रिया व्यक्तः । अपद्माश्रित इत्यर्थः । एवमप्रे-
ऽपि । गतधृतिर्निधैर्यः । मृदुमन्दं वर्ष यस्य स तादृशोऽपि तमेवेश्वरं परमेश्वरमनुग्रह-
मर्थये । इत्यत्रापि प्राग्वत् ॥
 
आ जन्म कर्म विरचय्य फलं यदाप्तं
 
हृत्वा क्षणात्तदखिलं चिरकालभोग्यम् ।
यः स्वीकरोत्यपुनरागमनाय भक्तं
 
सेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥ १२३ ॥
 
जन्मन आरभ्य आ जन्म कर्म शुभाशुभं विरचय्य । भक्तेनेति शेषः । भक्तजनेन
यत्फलं शुभाशुभमाप्तं तदेव चिरकालभोग्यमखिलं फलं क्षणाद्धृत्वा अपुनरागमनाय
ऐकान्तिकात्यन्तिकदुःखनिवृत्तये यो विभुर्भक्तं भक्तजनं स्वीकरोति निजसायुज्यं प्राप-
यति । अहो आश्चर्ये । तमेवेश्वरं मतिमत्तमो बुद्धिमत्तमः सेवे । अत्रापि प्राग्वद्योजना ॥
श्मशानैकस्थानव्यसनमनलोत्तालनयनं
विषज्योतिर्त्वालाजटिलकुटिलव्यालवलयम् ।
 
विभुं मुण्डश्रेणीविकटमुकुटं भीरुहृदयः
 
श्रयन्भीमं धीमानहमहसनीयः कृतषियाम् ॥ १२४ ॥
श्मशानमेवैकं प्रियतमं स्थानमस्य तादृशस्तम् । तथानलेनाग्निनोत्तालमुद्भटं नयनं
तृतीयं यस्य स तादृशस्तम् । तथा विषज्योतिर्ज्वालाभिविषा भिज्वालाभिर्जटिलो जटा-
वानिव यः कुटिलो व्यालः सर्पो वासुकिः स एव वलयः कङ्कणं यस्य स तादृशस्तम् ।
तथा मुण्डानां महाप्रलयेषु संहृतानां ब्रह्मादीनां ये मुण्डाः कपालास्तेषां श्रेण्येव विकटो
विस्तीर्णो मुकुटो यस्य स तादृशं भीमं श्रीशिवं भयानकं च श्रयन्नहं कृतधियां विदुषा-
महसनीयोऽहास्योऽस्मि । काक्का हास्योऽस्मि किं नेत्यर्थः ॥
 
२६
 
Digitized by Google