This page has been fully proofread once and needs a second look.

२००
 
काव्यमाला ।..
 
तानि तैः संकुलम् । भूताधिष्ठितं शवशरीरं वेतालः । भूतो ग्रहविशेषः । एवंभूतम् ।

तथा निशाचराणां रक्षसां पिशाचानां च रवैः शब्दैर्भीष्मं भयानकमीश्वरस्य धाम प्र

वेष्टुमतिमात्रं भीरुर्मतिमानहमिच्छामि । प्राग्वदत्रापि निन्दा स्तुतौ पर्यवस्यति ॥

 
कर्णेक्षणादचरणान्त्रिफणात्कृतान्त-

पाशान्त्रसन्धृतसहस्त्रफणोरगेन्द्रम् ।

प्राज्ञः सहस्रशिरसं पुरुषं सहस्र-

नेत्रं सहस्रचरणं शरणं श्रयामि ॥ ११९ ॥

 
अहं प्राज्ञो धीमान्कर्णावेवेक्षणे यस्य स तादृशस्तस्माच्चक्षुःश्रवसः । तथाचरणादवि-

द्यमानाश्चरणाः पादा यस्य स तादृशस्तस्मात् । गूढपादत्वात्सर्पस्य । तथा त्रिफणात्फ-

णत्रयमात्रयुक्तात्कृतान्तपाशाद्यमसर्पपाशान्त्रसन्धृतः सहस्रफण उरगेन्द्रो वासुकिर्येन स

तादृशस्तम् । तथा सहस्रशिरसम् । सहस्रं नेत्राणि यस्य स तादृशम् । सहस्रचरणं सहस्र-

पादम् । पुरुषं पुरि पुरि शेते पुरुषः परमात्मा । 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्र-

पात्' इति श्रुतेः । तं शरणं श्रयामि । इत्यत्रापि प्राग्वत्स्तुतिपर्यवसायिनी निन्दा ॥

 
त्रस्तः समस्तजनतापहृतिप्रगल्भा-

द्दीप्तानलोल्बणदृशः शिव जीवितेशात् ।

प्राज्ञः समस्तजनतापहृतिप्रगल्भं
 

त्वां जीवितेशमनलोग्रदृशं श्रयामि ॥ १२० ॥
 

 

 
हे शिव कैवल्यद, जनानां समूहो जनता । समस्तजनताया अपहृतिः संहारस्तत्र प्र-

गल्भस्तस्मात् । तथा क्रोधेन दीप्तानलवदुल्बणे उद्भटे दृशौ यस्य स तादृशस्तस्मात् ।

जीवितेशाद्यमात्रस्तो भीतः सन्नहं प्राज्ञो धीमान्समस्तजनानां शिवादिक्षित्यन्तलोकानां

तापास्त्रय आध्यात्मिकाधिदैविकाधिभौतिकास्तेषां हृतिस्तत्र प्रगल्भस्तादृशम् । अनलेना-

ग्
निनोप्ग्रा दृक् तृतीयनेत्रं यस्य स तादृशस्तम् । जीवितेशं परमात्मानं श्रीशिवं श्रयामि ॥

 
निर्भर्त्सितक्रतुमृगं समशिश्रियत्त्वां
 

संन्यस्तलाञ्छनमृगः कलया मृगाङ्कः ।

यत्कामवैरिणमवेत्य सकाम एव
 

त्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥ १२१ ॥
 

 
दक्षक्रतुध्वंसने निर्भत्सर्त्सितो इत: क्रतुरेव मृगो येन स तादृशस्तं त्वां विभुं कलया षो-

डशांशरूपया नितरामस्तो दूरीकृतो लाञ्छनमृगो येन स तादृशः । कलया वृद्धिरूपेण

व्याजेन च । एवंभूतो मृगाङ्कश्चन्द्रोऽशिश्रियत् । तयुक्तमेवेत्यर्थः । यत्तु कामस्य स्मरस्य

वैरिणं दाइकं त्वां विभुमवेत्य सकाम एव साभिलाष एव त्वां देवं यदाश्रितोऽस्मि ततो-
Digitized by Google