This page has not been fully proofread.

२००
 
काव्यमाला ।..
 
तानि तैः संकुलम् । भूताधिष्ठितं शवशरीरं वेतालः । भूतो महविशेषः । एवंभूतम् ।
तथा निशाचराणां रक्षसां पिशाचानां च रवैः शब्दर्भीष्मं भयानकमीश्वरस्य धाम प्र
वेष्टुमतिमात्रं भीरुर्मतिमानहमिच्छामि । प्राग्वदत्रापि निन्दा स्तुतौ पर्यवस्यति ॥
कर्णेक्षणादचरणात्रिफणात्कृतान्त-
पाशात्रसन्धृतसहस्त्रफणोरगेन्द्रम् ।
प्राज्ञः सहस्रशिरसं पुरुषं सहस्र-
नेत्रं सहस्रचरणं शरणं श्रयामि ॥ ११९ ॥
अहं प्राज्ञो धीमान्कर्णावेवेक्षणे यस्य स तादृशस्तस्माच्चक्षुःश्रवसः । तथाचरणादवि-
द्यमानाश्चरणाः पादा यस्य स तादृशस्तस्मात् । गूढपादत्वात्सर्पस्य । तथा त्रिफणात्फ-
णत्रयमात्रयुक्तात्कृतान्तपाशाद्यमसर्पपाशात्रसन्धृतः सहस्रफण उरगेन्द्रो वासुकिर्येन स
तादृशस्तम् । तथा सहस्रशिरसम् । सहस्रं नेत्राणि यस्य स तादृशम् । सहस्रचरणं सहस्र-
पादम् । पुरुषं पुरि पुरि शेते पुरुषः परमात्मा । 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्र-
पात्' इति श्रुतेः । तं शरणं श्रयामि । इत्यत्रापि प्राग्वत्स्तुतिपर्यवसायिनी निन्दा ॥
त्रस्तः समस्तजनतापहृतिप्रगल्भा-
द्दीप्तानलोबणदृशः शिव जीवितेशात् ।
प्राज्ञः समस्तजनतापहृतिप्रगल्भं
 
त्वां जीवितेशमनलोग्रदृशं श्रयामि ॥ १२० ॥
 

 
हे शिव कैवल्यद, जनानां समूहो जनता । समस्तजनताया अपहृतिः संहारस्तत्र प्र-
गल्भस्तस्मात् । तथा क्रोधेन दीप्तानलवदुल्बणे उद्भटे दृशौ यस्य स तादृशस्तस्मात् ।
जीवितेशाद्यमात्रस्तो भीतः सन्नहं प्राज्ञो धीमान्समस्तजनानां शिवादिक्षित्यन्तलोकानां
तापास्त्रय आध्यात्मिकाधिदैविकाधिभौतिकास्तेषां हृतिस्तत्र प्रगल्भस्तादृशम् । अनलेना-
निनोप्रा दृक् तृतीयनेत्रं यस्य स तादृशस्तम् । जीवितेशं परमात्मानं श्रीशिवं श्रयामि ॥
निर्भसितक्रतुमृगं समशिश्रियत्त्वां
 
संन्यस्तलाञ्छनमृगः कलया मृगाङ्कः ।
यत्कामवैरिणमवेत्य सकाम एव
 
त्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥ १२१ ॥
 
दक्षऋतुध्वंसने निर्भत्सतो इत: ऋतुरेव मृगो येन स तादृशस्तं त्वां विभुं कलया षो-
डशांशरूपया नितरामस्तो दूरीकृतो लाञ्छनमृगो येन स तादृशः । कलया वृद्धिरूपेण
व्याजेन च । एवंभूतो मृगाङ्कश्चन्द्रोऽशिश्रियत् । तयुक्तमेवेत्यर्थः । यत्तु कामस्य स्मरस्य
वैरिणं दाइकं त्वां विभुमवेत्य सकाम एव साभिलाष एव त्वां देवं यदाश्रितोऽस्मि ततो-
Digitized by Google