This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१९९
 
भाषया 'तरपतुल' इति ख्यातस्यार्धेधं धारयतीति तं च । यथातिवृद्ध उडुपार्धधारी च

स कथं समुद्रात्तारयतीति निन्दाप्यन्यार्थत्वेन स्तुतिपर्यवसायिनी ॥
हब्

 
दृड्
यार्गमात्रपतिताः सहसैव यस्य

पञ्चत्वमिन्दुरविहव्य<flag></flag>भुजोऽप्यवापुः ।

धीमानहं बत तमेव सदाशिवं य-

देवं श्रयामि शरणं मरणार्तिभीरुः ॥ ११६ ॥
 

 
यस्य श्रीशिवभट्टारकस्य दृशां तिसृणां नेत्रत्रयस्य गोचरमात्रपतिताः सहसैव तत्क्ष-

णमेव रवीन्दुहव्यभुजोऽपि सूर्येन्द्रमवग्नयोऽपि पञ्चत्वं पञ्चसंख्यावत्त्वमवापुः । अथ च प
श्य

ञ्च
त्वं मरणमपि । 'स्यात्पश्ञ्चता कालघर्मः' इत्यमरः । यतः सद्योजाततत्पुरुषाघोरवाम

देवेशाना इति भगवतः पञ्चवक्त्राणि । 'पञ्चवकंक्त्रं विशालाक्षं सर्पगोनासमण्डितम्' इति

स्वच्छन्दमहातन्त्रे । पञ्चसु वक्त्रेषु प्रत्येकं नेत्रगोचरस्थत्वेन सूर्येन्द्वग्मीनीनामपि पञ्चत्वं प

ञ्च
संख्यात्वं कालर्मश्च । अहं धीमान् । बताश्चर्ये । मरणार्तिभीरुस्तमेव सदाशिवं देव-

माश्रयामीति प्राग्वन्निन्दा स्तुतिपर्यवसायिनी ॥
 

 
स्थाणुः स यत्र विभुरस्य वधूरपर्णा
 

सा यत्र यत्र च तयोस्तनयो विशाखः ।

प्रज्ञावतामहमहो प्रवरः प्रवेष्टु-

मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥ ११७ ॥
 

 

 
यत्र धामन्यास्पदे स्थाणुः । तिष्ठति महाप्रलयेऽप्यनश्वरः स्थाणुर्महेश्वररिछश्छिन्नशाखो

द्रुमश्च । यत्र विभुः स्वामी । यत्र च तस्यापि स्थाणोर्वधूः सा प्रसिद्धा अपर्णा । शंभो-

राराधनाय तपसि पर्णानामप्यनशनादपर्णा पार्वती । तथा अपर्णा पर्णरहिता च च्छि-

न्
नशाखद्रुमस्य वधूः । तयोः स्थाण्वपर्णयोरपि तनयः सुतो विशाखः । "विशाखायां

जातो विशाखः । 'नक्षत्राहुल्लुग्बहुलम्" इति स्वामी । स प्रसिद्धो विशाखः कुमारः शाखा-

रहितश्च यत्र । अहो आश्चर्ये । अहं प्रज्ञावतां धीमतां प्रवरोऽभीष्टफलप्राप्तये तद्धाम

तदास्पदं प्रवेष्टुमिच्छामि यत्तदहमतिप्राज्ञ इत्यत्रापि निन्दा स्तुतिपर्यवसायिनी ॥
 

 
मार्जारसूकरसृगालकरालवक्त्र-

वेतालभूतशतसंकुलमीश्वरस्य ।

भीष्मं निशाचरपिशाचरवैः प्रवेष्टु-

मिच्छामि धाम मतिमानतिमात्रभीरुः ॥ ११८ ॥

 
मार्जारो विडालः । सूकरो वराहः । सगालः क्रोष्टा । द्वन्द्वात्परः श्रूयमाणः प्रत्येक

मभिसंबध्यते । मार्जारवावक्त्राणि च सूकरवावक्त्राणि च सृगालवफाक्त्राणि च वेतालभूतश-
Digitized by Google