This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१९९
 
भाषया 'तरपतुल' इति ख्यातस्यार्धे धारयतीति तं च । यथातिवृद्ध उडुपार्धधारी च
स कथं समुद्रात्तारयतीति निन्दाप्यन्यार्थत्वेन स्तुतिपर्यवसायिनी ॥
हब्यार्गमात्रपतिताः सहसैव यस्य
पञ्चत्वमिन्दुरविहव्यभुजोऽप्यवापुः ।
धीमानहं बत तमेव सदाशिवं य-
देवं श्रयामि शरणं मरणार्तिभीरुः ॥ ११६ ॥
 
यस्य श्रीशिवभट्टारकस्य दृशां तिसृणां नेत्रत्रयस्य गोचरमात्रपतिताः सहसैव तत्क्ष-
णमेव रवीन्दुहव्यभुजोऽपि सूर्येन्द्रमयोऽपि पञ्चत्वं पञ्चसंख्यावत्त्वमवापुः । अथ च प
श्यत्वं मरणमपि । 'स्यात्पश्चता कालघर्मः' इत्यमरः । यतः सद्योजाततत्पुरुषाघोरवाम
देवेशाना इति भगवतः पञ्चवक्राणि । 'पञ्चवकं विशालाक्षं सर्पगोनासमण्डितम्' इति
स्वच्छन्दमहातन्त्रे । पञ्चसु वक्रेषु प्रत्येकं नेत्रगोचरस्थत्वेन सूर्येन्द्वग्मीनामपि पञ्चत्वं प
वसंख्यात्वं कालघर्मश्च । अहं धीमान् । बतावर्ये । मरणार्तिभीरुस्तमेव सदाशिवं देव-
माश्रयामीति प्राग्वनिन्दा स्तुतिपर्यवसायिनी ॥
 
स्थाणुः स यत्र विभुरस्य वधूरपर्णा
 
सा यत्र यत्र च तयोस्तनयो विशाखः ।
प्रज्ञावतामहमहो प्रवरः प्रवेष्टु-
मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥ ११७ ॥
 

 
यत्र धामन्यास्पदे स्थाणुः । तिष्ठति महाप्रलयेऽप्यनश्वरः स्थाणुर्महेश्वररिछन्नशाखो
द्रुमश्च । यत्र विभुः स्वामी । यत्र च तस्यापि स्थाणोर्वधूः सा प्रसिद्धा अपर्णा । शंभो-
राराधनाय तपसि पर्णानामप्यनशनादपर्णा पार्वती । तथा अपर्णा पर्णरहिता च च्छि-
नशाखद्रुमस्य वधूः । तयोः स्थाण्वपर्णयोरपि तनयः सुतो विशाखः । "विशाखायां
जातो विशाखः । 'नक्षत्राहुबहुलम्" इति स्वामी । स प्रसिद्धो विशाखः कुमारः शाखा-
रहितश्च यत्र । अहो आश्चर्ये । अहं प्रज्ञावतां धीमतां प्रवरोऽभीष्टफलप्राप्तये तद्धाम
तदास्पदं प्रवेष्टुमिच्छामि यत्तदहमतिप्राज्ञ इत्यत्रापि निन्दा स्तुतिपर्यवसायिनी ॥
 
मार्जारसूकरसृगालकरालवक्र-
वेतालभूतशतसंकुलमीश्वरस्य ।
भीष्मं निशाचरपिशाचरवैः प्रवेष्टु-
मिच्छामि धाम मतिमानतिमात्रभीरुः ॥ ११८ ॥
मार्जारो विडालः । सूकरो वराहः । सगालः क्रोष्टा । द्वन्द्वात्परः श्रूयमाणः प्रत्येक
मभिसंबध्यते । मार्जारवाणि च सूकरवाणि च सृगालवफाणि च वेतालभूतश-
Digitized by Google