This page has been fully proofread once and needs a second look.

१९९८
 
काव्यमाला ।
 
चौरैर्गृहीतमपि दृष्टमपि द्विजिहैह्वै-

र्
ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः ।

व्याघ्रैरुपद्रुतमपि द्रुतमाक्षिपद्धिभि-

रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥ ११३ ॥
 

 
भूताभिभूतमपि सिन्धुजलेऽपि मग्नं
 

भग्नं रणेऽपि पतितं दवपावकेऽपि ।

किं भूयसा यमभटैरपि कृष्यमाणं
 

कस्त्रातुमर्हति महेश्वरमन्तरेण ॥ ११४ ॥ (युम्ग्मम्)
 

 
चौरैः स्तेनैर्गृहीतमपि तथा द्विजिहःह्वैः सर्वैपैर्दष्टमपि । ग्रहैर्ब्रह्मराक्षसवेतालादिभिर्ग्र-

स्तमपि । द्विषद्भिः शत्रुभिर्निरुद्धमपि । द्रुतमाक्षिपद्भिर्व्याघ्रैः शार्दूलैरुपद्रुतमपि । तथा

सरोषैरतिक्रुद्धैरवनिभृत्पुरुषै राजपुरुषैरन्विष्टं गवेषितमपि । भूतैर्ग्रहविशेषैरभिभूतं परा-

भूतमपि । तथा सिन्धुजलेऽपि समुद्रजलेऽपि भग्नपोतत्वान्मन्ग्नम् । तथा रणेऽपि सङ्क्ग्रा-

मेऽपि भग्नं पराजितम् । तथा दवपावकेऽघिषि दवाग्नापि पतितम् । एतेभ्योऽप्यतिसंकटं

महाभयमाह - किं भूयसेति । भूयसा बहूक्तेन किम् । यमभटैरषिपि यमकिंकरैरपि फ

णिपाशदण्डपाणिभिः कृष्यमाणं क्रन्दन्तं दीनं पुरुषं महेश्वरं परमेश्वरं दयालुमन्तरेण

बिना कोऽन्यस्त्रातुमर्हति ॥ युग्मम् ॥
 

 
तज्ज्ञो बतास्म्यभिलषन्सुखमक्षयं य

द्
दुःखैकधाम वपुरस्थिरमर्थयामि ।

यद्वा भवाब्धितरणाय पुराणमुग्र
 

शीलं पुमांसमुडुपार्धधरं श्रयामि ॥ ११९ ॥
 

 
बताश्चर्ये । अहं तज्ज्ञोऽस्मि विचक्षणोऽस्मि । सविडम्बनमात्मानं प्रत्युक्तिः । तज्ज्ञो

नास्मीत्यर्थः । यदहमक्षयं निर्नाशं सुखमिच्छन्दुःखैकघाधाम दुःखस्यैवैकं स्थानम् । सुख-

स्यापि परिणामदुःखत्वात् । "मनुष्या नित्यदुःखिनः' इत्युक्तेः । ईदृशमस्थिरं वपुः श-

रीरं यदर्थयामि याचे । पक्षान्तरमाह—यद्वेत्यादि । यद्वा पक्षान्तरे भवः संसार एवा-

पारत्वाद ब्धिस्तस्य तरणायोप्ग्रशीलमुमंग्रं कठिनं शीलं स्वभावो यस्य स रौद्रत्वादुप्ग्रशी-

लस्तं पुराणं पुमांसं पुराणपुरुषमतिवृद्धं पुरुषं च उडुपार्घघधधरमुडूनि नक्षत्राणि पातीत्यु-

डुपश्चन्द्रस्तस्यार्धेधं शकलं धारयतीति तादृशस्तं महेश्वरम् । तथा 'उडुपं' ह्रस्वादि ह्र-

स्वमध्यम् । 'उडुपश्चन्द्रभेलयोः' इति धरणिः । अतः पुंस्यप्युडुपो भेल इति ख्यातः"

इति रायमुकुट्याम् । 'उडुपस्तृणप्लवः' इति क्षीरस्वामी । उडुपस्य तृणप्लवस्य कश्मीरेषु
 
Digitized by Google