2023-02-23 21:27:31 by ambuda-bot
This page has not been fully proofread.
१९९८
काव्यमाला ।
चौरैर्गृहीतमपि दृष्टमपि द्विजिहै-
ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः ।
व्याघ्रैरुपद्रुतमपि द्रुतमाक्षिपद्धि-
रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥ ११३ ॥
भूताभिभूतमपि सिन्धुजलेऽपि मग्नं
भग्नं रणेऽपि पतितं दवपावकेऽपि ।
किं भूयसा यमभटैरपि कृष्यमाणं
कस्त्रातुमर्हति महेश्वरमन्तरेण ॥ ११४ ॥ (युम्मम्)
चौरैः स्तेनैर्गृहीतमपि तथा द्विजिहः सर्वैर्दष्टमपि । महैर्ब्रह्मराक्षसवेतालादिभिर्म-
स्तमपि । द्विषद्भिः शत्रुभिर्निरुद्धमपि । द्रुतमाक्षिपद्भिर्व्याघ्रैः शार्दूलैरुपद्रुतमपि । तथा
सरोषैरतिक्रुद्धैरवनिभृत्पुरुषै राजपुरुषैरन्विष्टं गवेषितमपि । भूतैर्ग्रहविशेषैरभिभूतं परा-
भूतमपि । तथा सिन्धुजलेऽपि समुद्रजलेऽपि भग्नपोतत्वान्मन्नम् । तथा रणेऽपि सङ्क्रा-
मेऽपि भग्नं पराजितम् । तथा दवपावकेऽघि दवानाबपि पतितम् । एतेभ्योऽप्यतिसंकटं
महाभयमाह - किं भूयसेति । भूयसा बहूक्तेन किम् । यमभटैरषि यमकिंकरैरपि फ
णिपाशदण्डपाणिभिः कृष्यमाणं क्रन्दन्तं दीनं पुरुषं महेश्वरं परमेश्वरं दयालुमन्तरेण
बिना कोऽन्यत्रातुमर्हति ॥ युग्मम् ॥
तज्ज्ञो बतास्म्यभिलषन्सुखमक्षयं य
दुःखैकधाम वपुरस्थिरमर्थयामि ।
यद्वा भवाब्धितरणाय पुराणमुग्र
शीलं पुमांसमुडुपार्धधरं श्रयामि ॥ ११९ ॥
बताश्चर्ये । अहं तज्ज्ञोऽस्मि विचक्षणोऽस्मि । सविडम्बनमात्मानं प्रत्युक्तिः । तज्ज्ञो
नास्मीत्यर्थः । यदहमक्षयं निर्नाशं सुखमिच्छन्दुःखैकघाम दुःखस्यैवैकं स्थानम् । सुख-
स्यापि परिणामदुःखत्वात् । "मनुष्या नित्यदुःखिनः' इत्युक्तेः । ईदृशमस्थिरं वपुः श-
रीरं यदर्थयामि याचे । पक्षान्तरमाह—यद्वेत्यादि । यद्वा पक्षान्तरे भवः संसार एवा-
पारत्वाद ब्धिस्तस्य तरणायोप्रशीलमुमं कठिनं शीलं स्वभावो यस्य स रौद्रत्वादुप्रशी-
लस्तं पुराणं पुमांसं पुराणपुरुषमतिवृद्धं पुरुषं च उडुपार्घघरमुडूनि नक्षत्राणि पातीत्यु-
डुपश्चन्द्रस्तस्यार्धे शकलं धारयतीति तादृशस्तं महेश्वरम् । तथा 'उडुपं' ह्रस्वादि इ-
स्वमध्यम् । 'उडुपश्चन्द्रभेलयोः' इति धरणिः । अतः पुंस्यप्युडुपो भेल इति ख्यातः"
इति रायमुकुट्याम् । 'उडुपस्तृणप्लवः' इति क्षीरस्वामी । उडुपस्य तृणप्लवस्य कश्मीरेषु
Digitized by Google