This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
या रात्रिमेव दिवसं तिमिरं प्रकाश-
मझिं

मग्निं
हिमं गरलमप्यमृतं करोति ॥ ११० ॥
 
१९७
 

 
हे महेश परमेश, इति पूर्वोक्तप्रकारेण जानन्नप्यहं यत्प्रलापात्सगद्गदव्यर्थवचना
न्न
विरमामि विराममवसानं न भजे मौनं न करोमि स एष तस्या आर्तेरेव महिमा ।

आर्तेः कस्या इव, तव दृश इव तवानुग्रहद्दष्टेरिव । तस्या आर्तेः कस्या इत्याह – रा.
-
त्रिमित्यादि । या आर्ती रात्रिमेव तमस्विनीमेव दिवसं सप्रकाशं करोति । आर्तो न

जानालेत्वेषा रात्रिरिति । तथा तिमिरमपि तमोऽपि प्रकाशं तेजोरूपं करोति । अमिं
ग्निं
ज्वलनमपि हिमं करोति । आर्तो ह्यतिशीतलोऽयमिति मत्वानावपि झम्पां ददातीत्यर्थः।

तथा गरलमपि विषमप्यमृतं करोति । रसायनं जानाति । हे विभो, भवदीयानुप्ग्रहदृ-

ष्
टिरप्येवमेव । तथा हि कस्यापि परमेश्वरभक्तस्येदं वृत्तम् – 'अरिर्मित्रं विषं पथ्यम-

धर्मो धर्मतामियात् । अनुकूले जगन्नाथे विपरीते विपर्ययः ॥' इति ॥

 
आर्तिः श्रुतैव कृपणात्करुणां तवान्त-

रुत्पादयत्यनिशमग्निशिखां शमीव ।

जातैव निर्दहति तामियमित्यमुत्र
 

किं ब्रूमहे महदनङ्कुशमीश्वरत्वम् ॥ ११९ ॥

 
तिंर्तिर्जन्मजरामरणत्रासाद्भूता कृपणाद्दीनजनान्मादृशाच्छुछ्रुतैव श्रुतमात्रैव तव विभो-

र्दयालोरन्तः करुणां दयां सदैवोत्पादयति । का कामिव । शमी शमीतरुशाखामिग्निशिखा-

मिव । यथा शमीशाखाग्निज्वालामुत्पादयति तद्वत् । इदं त्वतिचित्रं तव विभोरियं क

रुणा जातैव जातमात्रैव तां दीनजनार्तिम् । यस्या दीनजनार्तेः करुणा तथोत्पन्ना ता.

मेव निर्दहति भस्मीकरोति । यथा शमीशाखाया एवोत्पन्नाग्निज्वाला जातमात्रैव शर्मी
मीं
निर्दहति तद्वदित्यर्थः । इति हेतोरमुत्र विषये विभोर्महदनङ्कुशं निर्निरोधमीश्वरत्वमैश्वर्ये
यं
वयं किं ब्रूमहे ॥
 

 
यन्नाम पामरजनोचितमत्र किंचि-

दौचित्यमुक्तमसमञ्जसमभ्यधायि ।

तत्रापि भर्तुरुचिता रुचिरीश्वराणां
 

चेतश्चमत्कृतिकरी कपिझम्पिकोपिकापि[^१] ॥ ११२ ॥
 
नाम नि-

 
हे विभो, औचित्येन परमार्थरूपेण मुक्तं रहितमसमञ्जसं वितथप्रायम्
। नाम नि-
श्
चये । अत्र स्तुतिप्रसूनाञ्जलिप्रबन्धे यत्पामरजनोचितं पामरवचनसदृशमभ्यधाय्युक्तं

तत्रापि मादृशपामरजनविरचितस्तुतिवचनेऽपीश्वराणां सदैव स्वतन्त्राणां रुचिरभिलाष

उचिता युक्त एव । दृष्टं चैतत् – यथा कपिझम्पिका वानरोत्तलप्लुतिरीश्वराणां प्रभूर्णाणां चे-
तश्चमत्कारकरी तद्वन्ममापि पामरस्येयमुक्तिरित्यर्थः ॥
 

 
[^
]. 'एव'.
 
Digitized by Google