This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
या रात्रिमेव दिवसं तिमिरं प्रकाश-
मझिं हिमं गरलमप्यमृतं करोति ॥ ११० ॥
 
१९७
 
हे महेश परमेश, इति पूर्वोक्तप्रकारेण जानन्नप्यहं यत्प्रलापात्सगद्गदव्यर्थवचनान
विरमामि विराममवसानं न भजे मौनं न करोमि स एष तस्या आर्तेरेव महिमा ।
आर्तेः कस्या इव, तव दृश इव तवानुग्रहद्दष्टेरिव । तस्या आर्तेः कस्या इत्याह – रा.
त्रिमित्यादि । या आर्ती रात्रिमेव तमस्विनीमेव दिवसं सप्रकाशं करोति । आर्तो न
जानाले रात्रिरिति । तथा तिमिरमपि तमोऽपि प्रकाशं तेजोरूपं करोति । अमिं
ज्वलनमपि हिमं करोति । आर्तो ह्यतिशीतलोऽयमिति मत्वानावपि झम्पां ददातीत्यर्थः।
तथा गरलमपि विषमप्यमृतं करोति । रसायनं जानाति । हे विभो, भवदीयानुप्रहह-
टिरप्येवमेव । तथा हि कस्यापि परमेश्वरभक्तस्येदं वृत्तम् – 'अरिमित्रं विषं पथ्यम-
धर्मो धर्मतामियात् । अनुकूले जगन्नाथे विपरीते विपर्ययः ॥' इति ॥
आर्तिः श्रुतैव कृपणात्करुणां तवान्त-
रुत्पादयत्यनिशमग्निशिखां शमीव ।
जातैव निर्दहति तामियमित्यमुत्र
 
किं ब्रूमहे महदनङ्कुशमीश्वरत्वम् ॥ ११९ ॥
आतिंर्जन्मजरामरणत्रासाद्भूता कृपणाद्दीनजनान्मादृशाच्छुतैव श्रुतमात्रैव तव विभो-
र्दयालोरन्तः करुणां दयां सदैवोत्पादयति । का कामिव । शमी शमीतरुशाखामिशिखा-
मिव । यथा शमीशाखानिज्वालामुत्पादयति तद्वत् । इदं त्वतिचित्रं तव विभोरियं क
रुणा जातैव जातमात्रैव तां दीनजनार्तिम् । यस्या दीनजनार्तेः करुणा तथोत्पन्ना ता.
मेव निर्दहति भस्मीकरोति । यथा शमीशाखाया एवोत्पन्नाग्निज्वाला जातमात्रैव शर्मी
निर्दहति तद्वदित्यर्थः । इति हेतोरमुत्र विषये विभोर्महदनङ्कशं निर्निरोधमीश्वरत्वमैश्वर्ये
वयं किं ब्रूमहे ॥
 
यन्नाम पामरजनोचितमत्र किंचि-
दौचित्यमुक्तमसमञ्जसमभ्यधायि ।
तत्रापि भर्तुरुचिता रुचिरीश्वराणां
 
चेतश्चमत्कृतिकरी कपिझम्पिकोपि ॥ ११२ ॥
 
नाम नि-
हे विभो, औचित्येन परमार्थरूपेण मुक्तं रहितमसमञ्जसं वितथप्रायम्
चये । अत्र स्तुतिप्रसूनाञ्जलिप्रबन्धे यत्पामरजनोचितं पामरवचनसदृशमभ्यधाय्युक्तं
तत्रापि मादृशपामरजनविरचितस्तुतिवचनेऽपीश्वराणां सदैव स्वतन्त्राणां रुचिरभिलाष
उचिता युक्त एव । दृष्टं चैतत् – यथा कपिझम्पिका वानरोत्तलतिरीश्वराणां प्रभूर्णा चे-
तश्चमत्कारकरी तद्वन्ममापि पामरस्येयमुक्तिरित्यर्थः ॥
 
१. 'एव'.
 
Digitized by Google