2023-10-15 09:24:58 by jayusudindra
This page has been fully proofread once and needs a second look.
स्वभावतः श्यामलरोमशो वक्रो धनुराकृतिश्चलश्च भवति । अत एव तस्य मद्वधोयुक्त-
स्यैतादृशस्यैव मृत्युपाशस्य शान्त्यै निश्चेष्टीकरणाय । क्षम इति शेषः । क्षमो भवति । ए
तदेव वृद्धसंमत्या द्रढयति- हि यस्मात्कारणाद्विषमेऽत्यु
त्वविधायि विषमेव भवति । 'हिमेनैव हिमं शाम्येत्' इतिवदित्यर्थः । तथा च दुःखो-
पहतजनवर्णनप्रस्तावे ममापि वृत्तमेकम् – 'दुःखितस्य बहुदुःखसंचयैर्दुःखमु
करिष्यति । नाहिफेनमहिफेनसेविनः क्वापि दुर्जरतरं भविष्यति ॥" इति ॥
किं कार्यमेभिरनिशं पुनरुक्तशुतै-
रुद्वेगकारिभिरलब्धफलैः प्रलापैः ।
एवं विदन्नपि मुहुर्मुखरं विरौमि
पश्यामि न त्वदितरं हि परं शरण्यम् ॥ १०८ ॥
पुनरुक्ताः पुनः पुनः सगद्गदमुक्ता अत एव शुक्ताः पर्युषिताः । 'शुक्तः पर्युषितौ•
दनः' इत्यायुर्वेदे । 'शुक्तमन्नं न भुञ्जीत सद्यो दोषकरं हि तत्' इति च । शुक्तौदन-
तुल्यैरित्यर्थः । तथोद्वेगं वैमनस्यं कुर्वन्ति तादृशास्तैः । तथालब्धफलैर्निष्फलैः प्रलापै
रर्थकसगद्गदवचनैरनिशं सर्वदा कि कार्
आन
ञ्जानन्नप्यहं मुखरं विरौमि घोरं क्रन्दामि । एवं कृतेऽपि हे विभो, त्वदन्यं परमुत्कृष्टं
शरण्यं न हि पश्यामि । शरणे साधुः शरण्यस्तम् ॥
-
त्वं चेत्प्रसादसुमुखः प्रणयोक्तिभिः किं
त्वं चेदनादरपरः प्रणयोक्तिभिः किम् ।
भाग्योदये सति वृथैव गुणेषु यत्न-
स्तस्मिन्नसत्यपि वृथैव गुणेषु यत्नः ॥ १०९ ॥
हे विभो, प्रसादेन मुखप्रसन्नतयानुग्रहेण वा सुमुखः शोभनवदनस्त्वं चेत्कस्यापि सु-
कृतिनो भवसि तर्हि तस्य जनस्य विभुं प्रति प्रणयोक्तिभिः सविनयवचनैः प्रतिवचनैर्वा
किं भवति । न किंचिदित्यर्थः । सर्वदा स्वातन्त्र्याद्विभोरनभ्रे व्योम्नीवाकस्मात्तत्कृपा
`ष्टेरुदयादित्यर्थः । हे विभो, त्वं
तदा प्रणयोक्तिभिः किं स्यात् । न किंचिदित्यर्थः । दृष्टं चैतत् । पुंसो भाग्योदये भाग-
धेयोदये सति गुणेषु विद्वत्तादिषु यत्नः प्रयत्नो वृथैव भवति । तस्मिन्नसत्यपि गुणेषु
यत्नौ वृथैव । व्यर्थ इत्यर्थः ॥
जानन्नपीति विरमामि न यत्प्रलापा-
दार्तेर्महेश महिमैष दृशस्तवेव ।
Digitized by Google