This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
पूर्वोतं संगृह्णाति -
 
इत्यादि दूढ्य इव निष्ठुरपुष्टभाषी

यत्किंचन ग्रहगृहीत इवास्तशङ्कः ।

आर्त्या मुहुर्मुहुरयुक्तमपि ब्रवीमि
 

तत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥ १०९ ॥
 
पूर्वोतं संगृह्णाति -
 

 
हे स्वामिन्, दुरूहाशयः पुरुषो दूढ्यः । 'दुष्टाशयस्तु दूद्व्ढ्यः स्यात्' इति हलायुधः ।

दूढो निपातितः ररूहो दूढ्य इति (?) । हव्यकव्यविभाधाषनिमन्त्रितः स्वयमागतो दूढ्य

इति कश्मीरेषु भाषया विप्रो 'डोड' इति प्रसिद्ध इति च । यथा दूढ्यो निष्ठुरं क्रूरं पुष्टं

च भाषत इति निष्ठुरपुष्टभाषी भवति । यथा ग्रहो देहेवाक एव प्रदोग्रहो भूतप्रेतादिस्तेन गृ-

हीतो यथास्तशङ्को यत्किंचन प्रलपितुं निःशङ्को भवेदेवमार्त्या मुहुर्मुहुरयुक्तमप्यनुचित

मपि इत्यादिपूर्वोक्तं यत्किंचन ब्रवीमि तत्रापि तथापि हे निष्कृप निर्दय विभो, मौन-

मुद्रां मौनेन मुद्रा तां न भिनत्सि । न वदसीत्यर्थः ॥
 

पुनरपि स्वावस्थां निवेदयति-
-
 
१९९
 

 
भीते भवार्तिविधुरे चरणाप्ग्रलग्ने
 

भग्नेप्सिते गतिमपश्यति कांचिदन्याम् ।

कस्मादनागसि मनागसि विश्वसाक्षि-

न्दाक्षिण्यदिग्धहृदयोऽपि पराङ्मुखस्त्वम् ॥ १०६ ॥
 

 
हे विश्वसाक्षिन् त्रिजगत्येकदृष्टित्वेन व्यवस्थित, भीते सर्वत उपद्रुते तथा भवार्त्या सं-

सारोदितमनःपीडया विधुरे व्याकुले चरणाप्ग्रलग्ने पादाम्बुजाग्रलुठिते तथा भप्तग्नमी-

प्सितं संसारार्णवोत्तरणरूपं यस्य स भन्ग्नेप्सितस्तादृशे कांचिदन्यां गतिमुपायमपश्यति न

पश्यन्नपश्यंस्तादृशे तथानागसि निरपराघेधेऽर्थान्मयि दाक्षिण्येन लक्षणया स्नेहेन दोदीनज-

नोपरि स्थितेन दिग्धं व्याप्तं हृदयं यस्य तादृशोऽपि त्वं मनागीषदपि पराम्पुङ्मुखोऽसि ॥

 
स्वामिन्निसर्गमलिनः कुटिलश्चलोऽह-

मेतादृगेव च रिपुर्मम मृत्युपाशः ।

भ्रूपल्लवस्तव तथाविध एव तस्य
 

शान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥ १०७ ॥
 

 
हे स्वामिन्, निसर्गतः स्वभावतो मलिनो मलिनाशयोऽत एव कुटिलो वक्रश्चलश्च-

ञ्
चलप्रकृतिश्चास्मि । एतादृगेव निसर्गमलिन: स्वभावेन श्यामवर्णो वक्रश्चलञ्श्च रिपुः ।

रेपयति गच्छति विघातार्थं रिपुः । 'रेट गतौ' । मम रिपुर्घातको मच्छत्रुर्मृत्युपाशोऽन्त-
Digitized by Google
 
·