This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
इत्यादि दूढ्य इव निष्ठुरपुष्टभाषी
यत्किंचन ग्रहगृहीत इवास्तशङ्कः ।
आर्त्या मुहुर्मुहुरयुक्तमपि ब्रवीमि
 
तत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥ १०९ ॥
 
पूर्वोतं संगृह्णाति -
 
हे स्वामिन्, दुरूहाशयः पुरुषो दूढ्यः । 'दुष्टाशयस्तु दूद्व्यः स्यात्' इति हलायुधः ।
दूढो निपातितः ररूहो दूढ्य इति (?) । हव्यकव्यविभाषनिमन्त्रितः स्वयमागतो दूढ्य
इति कश्मीरेषु भाषया विप्रो 'डोड' इति प्रसिद्ध इति च । यथा दूढ्यो निष्ठुरं क्रूरं पुष्टं
च भाषत इति निष्ठुरपुष्टभाषी भवति । यथा ग्रहो देवाक एव प्रदो भूतप्रेतादिस्तेन गृ-
हीतो यथास्तशको यत्किंचन प्रलपितुं निःशको भवेदेवमार्त्या मुहुर्मुहुरयुक्तमप्यनुचित
मपि इत्यादिपूर्वोक्तं यत्किंचन ब्रवीमि तत्रापि तथापि हे निष्कृप निर्दय विभो, मौन-
मुद्रां मौनेन मुद्रा तां न भिनत्सि । न वदसीत्यर्थः ॥
 
पुनरपि स्वावस्थां निवेदयति-
-
 
१९९
 
भीते भवार्तिविधुरे चरणाप्रलने
 
भग्नेप्सिते गतिमपश्यति कांचिदन्याम् ।
कस्मादनागसि मनागसि विश्वसाक्षि-
न्दाक्षिण्यदिग्धहृदयोऽपि परामुखस्त्वम् ॥ १०६ ॥
 
हे विश्वसाक्षिन् त्रिजगत्येकदृष्टित्वेन व्यवस्थित, भीते सर्वत उपद्रुते तथा भवार्त्या सं-
सारोदितमनःपीडया विधुरे व्याकुले चरणाप्रलने पादाम्बुजाभलुठिते तथा भप्तमी-
प्सितं संसारार्णवोत्तरणरूपं यस्य स भन्नेप्सितस्तादृशे कांचिदन्यां गतिमुपायमपश्यति न
पश्यन्नपश्यंस्तादृशे तथानागसि निरपराघेऽर्थान्मयि दाक्षिण्येन लक्षणया स्नेहेन दोनज-
नोपरि स्थितेन दिग्धं व्याप्तं हृदयं यस्य तादृशोऽपि त्वं मनागीषदपि पराम्पुखोऽसि ॥
स्वामिनिसर्गमलिनः कुटिलश्चलोऽह-
मेताहगेव च रिपुर्मम मृत्युपाशः ।
भ्रूपलवस्तव तथाविध एव तस्य
 
शान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥ १०७ ॥
 
हे स्वामिन्, निसर्गतः स्वभावतो मलिनो मलिनाशयोऽत एव कुटिलो वक्रश्चलश्च-
चलप्रकृतिश्चास्मि । एताहगेव निसर्गमलिन: स्वभावेन श्यामवर्णो वक्रश्चलञ्च रिपुः ।
रेपयति गच्छति विघातार्थ रिपुः । 'रेट गतौ' । मम रिपुर्घातको मच्छत्रुर्मृत्युपाशोऽन्त-
Digitized by Google
 
·