This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
स्वावभासमयमेव मायया येन भिन्नमवभास्यते जगत् ।

चित्रमिन्द्रधनुरभ्रलेखया भास्वतेव तदुपास्महे महः ॥ १० ॥
 

 
स्वावभासेति । वयं तन्मह उपास्महे सेवामहे । येन स्वतन्त्रेण कर्त्री जगत्सुरनर-

तिर्यगादिरूपमवभास्यते प्रकाश्यते । किंभूतम् । भिन्नम् । कया । मायया मायातत्त्वेन

करणेन । 'स्वस्वरूपेषु भावेषु भेदप्रथा माया' इति पराप्रावेशिकायाम् । तया करणभू-

तया भिन्नं सच्चित्रं नानारूपमवभासते। किंभूतम् । स्वावभासमयमेव स्वश्चासाववभासः

स एव प्रकृतो यस्य । स्वात्मप्रकाशमेवेत्यर्थः । किं केनेव । इन्द्रधनुर्भास्वतेव । यथा

भास्वता कर्त्रा अभ्रलेखया करणभूतया चित्रं नानावर्णे सर्वमवभास्यते । किंभूतम् ।

स्वावभासमयमेव ॥
 

 
हृद्गुहागहनगेहगूहितं भासिताखिलजगत्रयोदरम् ।

कन्दकंदरदरीमुखोद्गतप्राणमारुतकृतस्थिरस्थितिम्
 
॥ ११ ॥
 

 
त्यक्तसर्वदशमक्षयोदयं रूपवर्जितमभित्तिसंश्रयम् ।
 

यं निरञ्जनमनक्षगोचरं दीपमद्भुतमुशन्ति तं स्तुमः ॥ १२ ॥ (युग्मम्)
 

 

 
युगलकम् – हृद्रुगुहेति, त्यक्तेति । वयं तं परमेश्वरं स्तुमः । तं कमित्याह - हृद्गुहेत्यादि ।

ज्ञानिन इत्यध्याहारः । ज्ञानिनो यं परमेशमद्भुतमाश्चर्यमयं दीपमुशन्ति । 'वश कान्तौ '

धातुः । उशन्त्यभिलषन्ति । वर्णयन्तीत्यर्थः । किंभूतम् । हृदेव गुहा गह्वरम् । 'देवखा-

तबिले गुहा' इत्यमरः । सैव गहनं गेहं तत्र गूहितं गोपितम् । 'चिद्धनोऽपि जगन्मूर्त्या-

श्यानो यः स जयत्यजः । स्वात्मप्रच्छादनक्रीडाविदग्धः परमेश्वरः ॥' इति योगराजः ।

अत्र अपिशब्द आर्थ: । गूहितमपि भासितं प्रकाशितमखिलं जगत्रयस्योदरं येन ।

विरोधाभासः । यद्वस्तु किमपि गोपितं तत्कथं बाह्यं प्रकाशयेत् । पुनश्च किंभूतम् ।

कन्देति । 'नाभेरधस्तान्मेढ्रोर्ध्वे कन्द इत्यभिधीयते' । मेहाढ्रादूर्ध्वे नाभेरेधो द्व्यङ्गुलं स्थानं

कन्दः । स एव कंदरम् । दरी गुहागह्वरं तस्य मुखं तस्मादुद्गतो यः प्राणमारुतः शरी-

रस्थवायुमुख्यस्तेनैव कृता स्थिरा स्थितिर्यस्य । अत्रापि प्राग्वद्विरोधाभासः । मारुतेन

हि दीपो निर्वाप्यते । एष तु चिन्मयो दीपः प्राणवायुना स्थिरस्थितिः ॥ पुनः ।

त्यक्ताः सर्वा दशा बालाद्यवस्था येन । चिदानन्दमयस्य ता न सन्ति । लौकिकस्य तु

दशा वर्तयो युज्यन्त एव । पुनश्च किंभूतम् । अविद्यमानौ क्षयोदयौ यस्य तम् । स्वरू-

पसदृशस्य क्षयोदयौ भवतः । अतश्चाद्भुतं तम् । तथा रूपेण वर्जितस्तम् । लौकिकस्य

दोपस्य रूपं दृश्यत एव । तथा अविद्यमानो भित्तावाधारे संश्रयो यस्य । हृदयाकाश-

स्थत्वात् । दीपस्य हि भित्तौ स्थितिरुपपन्ना । न तु षट्त्रिंशत्तत्त्वातीतस्य चिदानन्द-

घनस्य । दीपेन हि साञ्जनेन भाव्यम् । तथा अनक्षगोचरम् । अक्षाणामिन्द्रियाणामगो-

चरम् । बाह्यो हि दीपो नेत्रगम्यः । चिदानन्दमयस्त्विन्द्रियागम्य एव ॥
 
Digitized by Google