2023-02-23 21:26:58 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
स्वावभासमयमेव मायया येन भिन्नमवभास्यते जगत् ।
चित्रमिन्द्रधनुरभ्रलेखया भास्वतेव तदुपास्महे महः ॥ १० ॥
स्वावभासेति । वयं तन्मह उपास्महे सेवामहे । येन स्वतन्त्रेण कर्त्री जगत्सुरनर-
तिर्यगादिरूपमवभास्यते प्रकाश्यते । किंभूतम् । भिन्नम् । कया । मायया मायातत्त्वेन
करणेन । 'स्वस्वरूपेषु भावेषु भेदप्रथा माया' इति पराप्रावेशिकायाम् । तया करणभू-
तया भिन्नं सच्चित्रं नानारूपमवभासते। किंभूतम् । स्वावभासमयमेव स्वश्चासाववभासः
स एव प्रकृतो यस्य । स्वात्मप्रकाशमेवेत्यर्थः । किं केनेव । इन्द्रधनुर्भास्वतेव । यथा
भास्वता कर्त्रा अभ्रलेखया करणभूतया चित्रं नानावर्णे सर्वमवभास्यते । किंभूतम् ।
स्वावभासमयमेव ॥
हृगुहागहनगेहगूहितं भासिताखिलजगत्रयोदरम् ।
कन्दकंदरदरीमुखोद्गतप्राणमारुतकृतस्थिरस्थितिम्
॥ ११ ॥
त्यक्तसर्वदशमक्षयोदयं रूपवर्जितमभित्तिसंश्रयम् ।
यं निरञ्जनमनक्षगोचरं दीपमद्भुतमुशन्ति तं स्तुमः ॥ १२ ॥ (युग्मम्)
।
युगलकम् – हृद्रुहेति, त्यक्तेति । वयं तं परमेश्वरं स्तुमः । तं कमित्याह - हृगुहेत्यादि ।
ज्ञानिन इत्यध्याहारः । ज्ञानिनो यं परमेशमद्भुतमाश्चर्यमयं दीपमुशन्ति । 'वश कान्तौ '
धातुः । उशन्त्यभिलषन्ति । वर्णयन्तीत्यर्थः । किंभूतम् । हृदेव गुहा गह्वरम् । 'देवखा-
तबिले गुहा' इत्यमरः । सैव गहनं गेहं तत्र गूहितं गोपितम् । 'चिद्धनोऽपि जगन्मू-
श्यानो यः स जयत्यजः । स्वात्मप्रच्छादनक्रीडाविदग्धः परमेश्वरः ॥' इति योगराजः ।
अत्र अपिशब्द आर्थ: । गूहितमपि भासितं प्रकाशितमखिलं जगत्रयस्योदरं येन ।
विरोधाभासः । यद्वस्तु किमपि गोपितं तत्कथं बाह्यं प्रकाशयेत् । पुनश्च किंभूतम् ।
कन्देति । 'नाभेरधस्तान्मेढ्रोर्ध्वे कन्द इत्यभिधीयते' । मेहादूर्ध्व नाभेरेधो द्व्यङ्गुलं स्थानं
कन्दः । स एव कंदरम् । दरी गुहागह्वरं तस्य मुखं तस्मादुद्गतो यः प्राणमारुतः शरी-
रस्थवायुमुख्यस्तेनैव कृता स्थिरा स्थितिर्यस्य । अत्रापि प्राग्वद्विरोधाभासः । मारुतेन
हि दीपो निर्वाप्यते । एष तु चिन्मयो दीपः प्राणवायुना स्थिरस्थितिः ॥ पुनः ।
त्यक्ताः सर्वा दशा बालाद्यवस्था येन । चिदानन्दमयस्य ता न सन्ति । लौकिकस्य तु
दशा वर्तयो युज्यन्त एव । पुनश्च किंभूतम् । अविद्यमानौ क्षयोदयौ यस्य तम् । स्वरू-
पसदृशस्य क्षयोदयौ भवतः । अतश्चाद्भुतं तम् । तथा रूपेण वर्जितस्तम् । लौकिकस्य
दोपस्य रूपं दृश्यत एव । तथा अविद्यमानो भित्तावाधारे संश्रयो यस्य । हृदयाकाश-
स्थत्वात् । दीपस्य हि भित्तौ स्थितिरुपपन्ना । न तु षट्त्रिंशत्तत्त्वातीतस्य चिदानन्द-
घनस्य । दीपेन हि साञ्जनेन भाव्यम् । तथा अनक्षगोचरम् । अक्षाणामिन्द्रियाणामगो-
चरम् । बाह्यो हि दीपो नेत्रगम्यः । चिदानन्दमयस्त्विन्द्रियागम्य एव ॥
Digitized by Google