This page has been fully proofread once and needs a second look.

१९४
 
काव्यमाला ।
 
आः किं न रक्षसि मयत्ययमन्तको मां

हेलावलेपसमयः किमयं महेश ।
 

मा नाम भूत्करुणया हृदयस्य पीडा

व्रीडापि नास्ति शरणागतमुज्झतस्ते ॥ १०२ ॥
 

 
हे महेश परमशिव निमेषमात्रेणापि त्रिजगदुद्धारक, । आः कोपे । अयमन्तको

यमो मां नयति । हठादिति शेषः । अतो हैहे विभो, त्वं मां किं न रक्षसि । हेलया क्री-

डयावलेपोऽवगणनं तस्य समयोऽयं किं भवति । नाम संभावनायाम् । ईदृशं पूकृत्या-

क्रन्दन्तं मृत्युप्ग्रस्तं पुरो मामवलोक्य करुणया कृपया तव हृदयस्य चित्तस्य पीडा मा

भून्मा भवतु परंतु शरणागतं मामुज्झतस्त्यक्तवतस्तव व्रीडा लज्जापि नास्ति । काका
क्वा
नास्तीत्यर्थः ॥
 

 
अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसि

व्यग्रोऽसि किं किमघृणोऽसि किमक्षमोऽसि ।

निद्रालसः किमसि किं मदघूर्णितोऽसि

क्रन्दन्तमन्तकभयार्तमुपेक्षसे यत् ॥ १०३ ॥
 

 
है विभो, त्वं किमज्ञोऽसि परपीडानभिज्ञोऽसि । किं वाबलो बलरहितोऽसि । ईंडईदृ-

शसंकटस्थशरणागतरक्षणासामर्थ्यात् । अथवाकुलो व्याकुलोऽसि । किं वा व्यप्ग्रो

जगद्रक्षाविधानकार्ये व्यप्ग्रोऽसि । किं वाघृणो निष्करुण एवासि । किं वाक्षमोऽसमर्थो

ऽसि । किं वा त्रिजगद्धारणे श्रान्तः सन्भिनिद्रयैवालसोऽसि । किं वा मदेनाम्बुधिमथनो

दितमदिरामदेन घूर्णितोऽसि । अत्र हेतुमाह

- कस्मात्कारणादीदृशं पूत्कृत्याक्रन्दन्त-

मपि मामन्तकभयार्तेतं मृत्युभयपीडितमुपेक्षसे त्यजसीति । तव त्रिजगदुद्धारकस्यैतन्

युक्तमित्यर्थः ॥
 

पुनरप्येतदेव समर्थयति-

 
द्वेषः किमेष कृपणे किमुताक्षमेयं
 

नित्रिस्त्रिंशता किमथवा किमशक्तिरेव ।

हुंकारमात्रकनिराकरणीयगर्वे
 

सर्वेश कालहतके यदियत्युपेक्षा ॥ १०४ ॥
 

 
हे सर्वेश विश्वनाथ, कृपणेऽतिकातरेऽर्थान्मयि एष द्वेषः किमदृष्टधट्यवलोकनं किम् ।

उत पक्षान्तरे अक्षमा किम् । अथ वा निस्त्रिंशता निर्दयता किमियं भवति । अथेयमश-

क्
तिः किं भवति । असामर्थ्यमित्यर्थः । यद्यस्मात्केवलं हुंकारमात्रकेणैव निराकरणीया

हंकारे दुष्टकृतान्तेऽपीयती बहुतरा उपेक्षा भवति ॥
 
Digitized by Google