2023-02-23 21:27:31 by ambuda-bot
This page has not been fully proofread.
१९४
काव्यमाला ।
आः किं न रक्षसि मयत्ययमन्तको मां
हेलावलेपसमयः किमयं महेश ।
मा नाम भूत्करुणया हृदयस्य पीडा
व्रीडापि नास्ति शरणागतमुज्झतस्ते ॥ १०२ ॥
हे महेश परमशिव निमेषमात्रेणापि त्रिजगदुद्धारक, । आः कोपे । अयमन्तको
यमो मां नयति । हठादिति शेषः । अतो है विभो, त्वं मां किं न रक्षसि । हेलया क्री-
डयावलेपोऽवगणनं तस्य समयोऽयं किं भवति । नाम संभावनायाम् । ईदृशं पूकृत्या-
क्रन्दन्तं मृत्युप्रस्तं पुरो मामवलोक्य करुणया कृपया तव हृदयस्य चित्तस्य पीडा मा
भून्मा भवतु परंतु शरणागतं मामुज्झतस्त्यक्तवतस्तव व्रीडा लजापि नास्ति । काका
नास्तीत्यर्थः ॥
अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसि
व्यग्रोऽसि किं किमघृणोऽसि किमक्षमोऽसि ।
निद्रालसः किमसि किं मदघूर्णितोऽसि
क्रन्दन्तमन्तकभयार्तमुपेक्षसे यत् ॥ १०३ ॥
है विभो, त्वं किमज्ञोऽसि परपीडानभिज्ञोऽसि । किं वाबलो बलरहितोऽसि । ईंड-
शसंकटस्थशरणागतरक्षणासामर्थ्यात् । अथवाकुलो व्याकुलोऽसि । किं वा व्यप्रो
जगद्रक्षाविधानकार्ये व्यप्रोऽसि । किं वाघृणो निष्करुण एवासि । किं वाक्षमोऽसमर्थो
ऽसि । किं वा त्रिजगद्धारणे श्रान्तः सन्भिद्रयैवालसोऽसि । किं वा मदेनाम्बुधिमथनो
दितमदिरामदेन घूर्णितोऽसि । अत्र हेतुमाह
- कस्मात्कारणादीदृशं पूत्कृत्याक्रन्दन्त-
मपि मामन्तकभयार्ते मृत्युभयपीडितमुपेक्षसे त्यजसीति । तव त्रिजगदुद्धारकस्यैतन
युक्तमित्यर्थः ॥
पुनरप्येतदेव समर्थयति-
द्वेषः किमेष कृपणे किमुताक्षमेयं
नित्रिशता किमथवा किमशक्तिरेव ।
हुंकारमात्रकनिराकरणीयगर्वे
सर्वेश कालहतके यदियत्युपेक्षा ॥ १०४ ॥
हे सर्वेश विश्वनाथ, कृपणेऽतिकातरेऽर्थान्मयि एष द्वेषः किमदृष्टधवलोकनं किम् ।
उत पक्षान्तरे अक्षमा किम् । अथ वा निस्त्रिंशता निर्दयता किमियं भवति । अथेयमश-
तिः किं भवति । असामर्थ्यमित्यर्थः । यद्यस्मात्केवलं हुंकारमात्रकेणैव निराकरणीया
हंकारे दुष्टकृतान्तेऽपीयती बहुतरा उपेक्षा भवति ॥
Digitized by Google