This page has been fully proofread once and needs a second look.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
विद्याविहीनमिव सत्कुलजस्य रूपं

निर्दानभोगमिव कापुरुषस्य वित्तम् ।

मानुष्यमुज्ज्वलकुलश्रुतशीलशुद्धं
 

जातं विपद्विधुरितं मम शोचनीयम् ॥१०० ॥ (तिलकम् )
 
१९३
 

 
यथा स्वर्भानुना राहुणा गीर्णं प्रस्तं पूर्णेन्दुबिम्बं शोचनीयं भवति । यथा च दारु

गया रुजा महारोगेण रुग्णं भग्नं षोडशहायनाङ्गनाङ्गं शोच्यम् । यथाजगरेण 'अजं गि-

लतीत्यजगरः, अजो नित्यो गरोऽस्य वा' इति स्वामी । अजगरेण महता सर्पविशेषेणो-

पगूढमालिङ्गितं यथा श्रीखण्डाख्यचन्दनमिव शोच्यम् । यथा पिशुनैः खलैर्व्यूढं व्याप्तं

नृपस्य पादमूलमिव शोच्यम् । यथा च दुग्धमहाब्धिनीरं क्षीरसमुद्रजलं हालाहलेन वि-

षविशेषेणाक्तं मिलितं शोच्यम् । यथा च महामकरैर्जलप्राणिभी रुद्धं गङ्गातीरं शो-

च्यम् । यथा च दारिद्र्येणाकिंचनत्वेन दुग्धं दाहयुक्तं साधोः सतो गृहस्थस्य वृत्तं शो-

च्यम् । यथा च श्रुतेन शास्त्रेण पठितेन विश्रुतस्य प्रसिद्धस्य जन्तोः समत्सरं सरोषं

चित्तं मनः शोच्यम् । यथा च विद्यया विहीनं निर्मलकुलीनस्य रूपं शोच्यम् । यथा च

कापुरुषस्य कृपणस्य वित्तं दानभोगरहितं शोच्यम् । तथैव हे विभो, ममापि मानुष्यं

मनुष्यजन्म उज्ज्वलेन निर्मलेन कुलेन श्रुतेन शास्त्रेण शीलेनाचारेण शुद्धं विमलमपि

विपदा दारिद्र्येण विधुरितं कातरीकृतं शोचनीयं जातम् ॥ तिलकम् ॥
 

इदानीं तद्वृत्तांसक्तचेतस्त्वात्पर इव पश्यन्विलपति-

 
पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य-

न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् ।

भूमौ पतामि कृपणं प्रलपामि पाद-

पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥ १०१ ॥
 

 
हे विभो, क्रूरं नितान्तं क्रूराशयं फणिपाशपाणिणिं सर्पपाशहस्तं कृतान्तहतकं दुष्टय-

मम् । अपिशब्दोऽन्वर्थ: (?) । पश्चादपि पुरोऽपि प्रतिदिशं च विमृश्यागतं पश्यन्भमौ

पतामि लुठामि । कृपणं दीनं च प्रलपामि निरर्थकं वच्मि । तवैव विभोः प्रतिमायाः

पादपीठे लुठामि शठवत्कितववत्कठिनः कठिनहृदयः कस्मादसि । एतद्वृत्तानुसारेण म

मापीदं वृत्तद्वयम् - 'जलधर इव गर्जितं वितन्वन्नयमयमागत एव पाशहस्तः । शरण-

मशरणस्य को दयालो मम कृपणस्य कृपां कुरु त्वमत्र ॥' तथा – 'कि सुप्तोऽसि कि-

माकुलोऽसि जगतः सृष्टस्य रक्षाविधौ किं वा निष्करुणोऽसि नूनमथवा क्षीवःबः स्वतन्त्रो

ऽसि किम् । किं वा मादृशनिःशरण्यकृपणाभाग्यैर्जडोऽवागसि स्वामिन्यन्न शृणोषि मे
 

विलपितं यन्नोत्तरं यच्छसि' ॥
 
२५
 
Digitized by Google