This page has not been fully proofread.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
विद्याविहीनमिव सत्कुलजस्य रूपं
निर्दानभोगमिव कापुरुषस्य वित्तम् ।
मानुष्यमुज्ज्वलकुलश्रुतशीलशुद्धं
 
जातं विपद्विधुरितं मम शोचनीयम् ॥१०० ॥ (तिलकम् )
 
१९३
 
यथा स्वर्भानुना राहुणा गीर्ण प्रस्तं पूर्णेन्दुबिम्बं शोचनीयं भवति । यथा च दारु
गया रुजा महारोगेण रुग्णं भग्नं षोडशहायनाङ्गनाङ्गं शोच्यम् । यथाजगरेण 'अजं गि-
लतीत्यजगरः, अजो नित्यो गरोऽस्य वा' इति स्वामी । अजगरेण महता सर्पविशेषेणो-
पगूढमालिङ्गितं यथा श्रीखण्डाख्यचन्दनमिव शोच्यम् । यथा पिशुनैः खलैर्व्यूढं व्याप्तं
नृपस्य पादमूलमिव शोच्यम् । यथा च दुग्धमहाब्धिनीरं क्षीरसमुद्रजलं हालाहलेन वि-
षविशेषेणाक्तं मिलितं शोच्यम् । यथा च महामकरैर्जलप्राणिभी रुद्धं गङ्गातीरं शो-
च्यम् । यथा च दारिद्र्येणाकिंचनत्वेन दुग्धं दाहयुक्तं साधोः सतो गृहस्थस्य वृत्तं शो-
च्यम् । यथा च श्रुतेन शास्त्रेण पठितेन विश्रुतस्य प्रसिद्धस्य जन्तोः समत्सरं सरोषं
चित्तं मनः शोच्यम् । यथा च विद्यया विहीनं निर्मलकुलीनस्य रूपं शोच्यम् । यथा च
कापुरुषस्य कृपणस्य वित्तं दानभोगरहितं शोच्यम् । तथैव हे विभो, ममापि मानुष्यं
मनुष्यजन्म उज्ज्वलेन निर्मलेन कुलेन श्रुतेन शास्त्रेण शीलेनाचारेण शुद्धं विमलमपि
विपदा दारिद्र्येण विधुरितं कातरीकृतं शोचनीयं जातम् ॥ तिलकम् ॥
 
इदानीं तद्वृत्तांसक्तचेतस्त्वात्पर इव पश्यन्विलपति-
पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य-
न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् ।
भूमौ पतामि कृपणं प्रलपामि पाद-
पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥ १०१ ॥
 
हे विभो, क्रूरं नितान्तं क्रूराशयं फणिपाशपाणि सर्पपाशहस्तं कृतान्तहतकं दुष्टय-
मम् । अपिशब्दोऽन्वर्थ: (?) । पश्चादपि पुरोऽपि प्रतिदिशं च विमृश्यागतं पश्यन्भमौ
पतामि लुठामि । कृपणं दीनं च प्रलपामि निरर्थकं वच्मि । तवैव विभोः प्रतिमायाः
पादपीठे लुठामि शठवत्कितववत्कठिनः कठिनहृदयः कस्मादसि । एतवृत्तानुसारेण म
मापीदं वृत्तद्वयम् - 'जलधर इव गर्जितं वितन्वन्नयमयमागत एव पाशहस्तः । शरण-
मशरणस्य को दयालो मम कृपणस्य कृपां कुरु त्वमत्र ॥' तथा – 'कि सुप्तोऽसि कि-
माकुलोऽसि जगतः सृष्टस्य रक्षाविधौ किंवा निष्करुणोऽसि नूनमथवा क्षीवः स्वतन्त्रो
ऽसि किम् । किं वा मादृशनिःशरण्यकृपणाभाग्यैर्जडोऽवागसि स्वामिन्यन्न शृणोषि मे
 
विलपितं यन्नोत्तरं यच्छसि' ॥
 
२५
 
Digitized by Google