This page has been fully proofread once and needs a second look.

१९२
 
काव्यमाला ।
 
मूर्तिस्तवेव शिव मे विधुरोचितेयं

दृष्टिस्तवेव भगवन्विषमा ममापि ।

शूली विषादहतशक्तिरहं यथा त्वं
 

कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९६ ॥
 

 
हे शिव विभो, विधुरोचिता विधुना चन्द्रमसा रोचिता शोभिता तव मूर्तिरस्ति ।

तथा ममापि मूर्तिस्तनुर्विधुरा दीना उचिता युक्ता । हे भगवन्, यथा तव विषमा त्रि-

त्वाद्दृष्टिस्तथा ममापि दृष्टिविषमा उम्ग्रा सरोषत्वात् । यथा च त्वं शूली त्रिशूली

तथा विषादहतशक्तिर्विषं कालकूटाख्यं तस्मादहतशक्तिर्न हता शक्तिर्यस्य स तादृगसि

तथाहमपि जन्मजरामरणत्रासरूपगूशूलरोगवान् । तथा तदुत्थेनैव विषादेन दुःखेन हता

शक्तिः सामर्थ्यं यस्य स तादृगस्मि । कष्टमित्यादि पूर्ववत् ॥

 
कण्ठे विषं वसति मे विषमं तवेव
 

भूतेश्वरः पशुपतिश्च भवानिवाहम् ।

अङ्गं ममापि गुरुरुग्ज्वलितं तवेव
 

कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९७ ॥
 

 
हे विभो, यथा तव कण्ठे विषं कालकूटाख्यं वसति तथा ममापि विषं मात्सर्यरू-

पम् । यथा त्वं भूतानां चतुर्दशविधसर्गभूतानामीश्वरस्तथा पशुपतिराणवमायीवकार्मा-

ख्यपाशत्रयबद्धाः पञ्चकलाकलिता जनाः पशवस्तेषामीशो यथासि तथाहमपि भूतानां

लक्षणया महोत्ग्राणां तथा पशूनामुपचारेणाज्ञानां पतिः । हे विभो, यथा तवाङ्गं गुरुरु-

ग्गुर्वी रुक् शोभा यस्य तादृशं तथा ज्वलितं दीप्तै तथा ममाप्यनंङ्गं गुरुरुग्ज्वलितं गुर्वी

चासौ रुग्जन्मजरादिव्याधिस्तया रुजा ज्वलितम् । 'स्त्री रुग्रुजा च' इत्यमरः । कष्ट

मित्यादिपूर्ववत् ॥
 

 
स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बं
 

बालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् ।

श्रीखण्डचन्दनमिवाजगरोपगूढं
 

व्यूढं नृपस्य पिशुनैरिव पांपादमूलम् ॥ ९८ ॥

 
हालाहलाक्तमिव दुग्धमहाब्धिनीरं
 

तीरं महामकररुद्धमिव द्युसिन्धोः ।

दारिद्र्यदग्धमिव साधुगृहस्थवृत्तं
 

चित्तं समत्सरमिव श्रुतविश्रुतस्य ॥ ९९ ॥
 
Digitized by Google