This page has not been fully proofread.

१९२
 
काव्यमाला ।
 
मूर्तिस्तवेव शिव मे विधुरोचितेयं
दृष्टिस्तवेव भगवन्विषमा ममापि ।
शूली विषादहतशक्तिरहं यथा त्वं
 
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९६ ॥
 
हे शिव विभो, विधुरोचिता विधुना चन्द्रमसा रोचिता शोभिता तव मूर्तिरस्ति ।
तथा ममापि मूर्तिस्तनुविधुरा दीना उचिता युक्ता । हे भगवन्, यथा तव विषमा त्रि-
त्वादृष्टिस्तथा ममापि विषमा उम्रा सरोषत्वात् । यथा च त्वं शूली त्रिशूली
तथा विषादहतशक्तिर्विषं कालकूटाख्यं तस्मादहतशक्तिर्न हता शक्तिर्यस्य स तागसि
तथाहमपि जन्मजरामरणत्रासरूपगूलरोगवान् । तथा तदुत्थेनैव विषादेन दुःखेन हता
शक्तिः सामर्थ्य यस्य स तादृगस्मि । कष्टमित्यादि पूर्ववत् ॥
कण्ठे विषं वसति मे विषमं तवेव
 
भूतेश्वरः पशुपतिश्च भवानिवाहम् ।
अङ्गं ममापि गुरुरुग्ज्वलितं तवेव
 
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९७ ॥
 
हे विभो, यथा तव कण्ठे विषं कालकूटाख्यं वसति तथा ममापि विषं मात्सर्यरू-
पम् । यथा त्वं भूतानां चतुर्दशविधसर्गभूतानामीश्वरस्तथा पशुपतिराणवमायीवकार्मा-
ख्यपाशत्रयबद्धाः पञ्चकलाकलिता जनाः पशवस्तेषामीशो यथासि तथाहमपि भूतानां
लक्षणया महोत्राणां तथा पशूनामुपचारेणाज्ञानां पतिः । हे विभो, यथा तवाङ्गं गुरुरु-
ग्गुर्वी रुक् शोभा यस्य तादृशं तथा ज्वलितं दीप्तै तथा ममाप्यनं गुरुरुग्ज्वलितं गुर्वी
चासौ रुग्जन्मजरादिव्याधिस्तया रुजा ज्वलितम् । 'स्त्री रुग्रुजा च' इत्यमरः । कष्ट
मित्यादिपूर्ववत् ॥
 
स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बं
 
बालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् ।
श्रीखण्डचन्दनमिवाजगरोपगूढं
 
व्यूढं नृपस्य पिशुनैरिव पांदमूलम् ॥ ९८ ॥
हालाहलाक्तमिव दुग्धमहाब्धिनीरं
 
तीरं महामकररुद्धमिव द्युसिन्धोः ।
दारिद्र्यदग्धमिव साधुगृहस्थवृत्तं
 
चित्तं समत्सरमिव श्रुतविश्रुतस्य ॥ ९९ ॥
 
Digitized by Google