This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
त्वं चेद्गवि प्रविदधासि धृतितिं तथाहं
 

कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९३ ॥
 

 
हे शिव, गुणेभ्यः सत्त्वरजस्तमोभ्यो मूलप्रकृतिकारणेभ्यो निष्क्रान्तो निर्गुणः पु

रुषः । 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः' इति सांख्या: । 'न प्रकृतिर्न विकृतिः

पुरुष: ' इति च । यथा त्वं निर्गुणस्तथाहमपि गुणेभ्यः पाण्डित्यदयादाक्षिण्यादिभ्यो नि

ष्क्रान्तः । अथशब्दो यद्यर्थे । यथा त्वदीयं परमुत्कृष्टं धाम स्थानं शून्यम् । ब्रह्मा-

ण्डोर्ध्वे शून्यास्पदत्वात्परज्योतिः स्वरूपस्य परमात्मनः । तथा मदीयमपि धाम गृहं परं

केवलं शून्यम् । व्यावहारिकोपकरणासंभवात् । तथा चेद्यदि त्वं गवि वृषभे वृति
धृतिं
स्थितिं वाहनत्वात्प्रकर्षेण विदधासि तथाहमपि गवि वाण्यां धृतितिं प्रीतिं विदधामि ।

'लक्ष्यदृष्टया स्त्रियां पुंसि गौः' इत्यमरः । कष्टं त्वेतत् - हे विभो, त्वं शिवोऽसि । अहं

तु दैवेन विधिना क्षत उपहतोऽशिवोऽविद्यमानशर्मास्मि ॥

 
कामस्त्वयीव मयि निष्फलतामवाप
 

क्षिप्तो मयापि विफलो भवतेव कालः ।

विध्वस्तधाम मम देव वपुस्तवेव
 

कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९४ ॥

 
हे विभो, यथा त्वयि विषये कामो मदनः ......कामोऽभिलाषो वैफल्यमाप ।

तथा यद्वद्भवता विभुना कालो मृत्युः श्वेतनृपतेः प्रसङ्गेन विफलः क्षिप्तो निरस्तस्तथा

मयापि विफलो निरर्थकः कालः समयः क्षिप्तोऽतिवाहितः । हे देव श्रीशंभो, यथा तव

वपुः शरीरं विध्वस्तधाम विधुना चन्द्रेणास्तं क्षिप्तं धाम तेजः कान्तिस्वरूपं शिरसि

चन्द्रमौलित्वाद्यत्र । तथा मदीयमपि वपुर्विध्वस्तं नष्टं धाम तेजो यस्य तत्तादृशम् ।

कष्टं त्वेतत् — हे विभो, त्वं शिवस्त्रिजगतः शिवदः । अहं तु विधिक्षतो दैवोपहतो-

sशिवोऽस्मि ॥
 
११ स्तोत्रम्]
 

 
यद्वद्विभो तव हृदि प्रविभाति नाग-

स्तद्वन्ममापि भवदेकपरायणस्य ।

यद्वत्स्वधर्मनिरतस्त्वमहं तथैव
 
१९१
 

कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९९ ॥
 

 
हे प्रभो, यथा तव हृदि वक्षसि नागः सर्पो वासुकिः प्रविभाति तथा ममापि हृदि

मनस्यपि नागः । अत्र पदच्छेदे न आगः अपराधोऽस्ति वराकस्य । अत्र हेतुः -

भवति विषये एकपरायणस्य । तथा हे विभो, यथा त्वं स्वे धर्मे वृषे निरतः सक्तस्त-

थाहमपि । अत्रापि पूर्वोक्तो हेतुः । यद्वा सुष्टु अत्यर्थमधर्मे
वेदाविहिते कार्ये नितरां
 
थाहमपि । अत्रापि पूर्वोक्तो हेतुः । यद्वा सुष्टु अत्यर्थमधर्मे

सक्तोऽहम् । कष्टमित्यादि पूर्ववत्
 
Digitized by Google