This page has not been fully proofread.

१९०
 
काव्यमाला ।
 
यस्य । तथा प्रकर्षेण विलीनं क्षोणं धाम तेजो यस्य सः । तादृशोऽहम् । क्षीणः क्षययुक्तः ।
क्षताः क्षयं गता अखिलकलाः षोडश यस्य सः । तथा प्रकर्षेण विलीनं धाम तेजो
यस्य सः । एवंविधोऽमृतांशुश्चन्द्रः सवितारं सूर्यमिव त्वामाश्रितोऽस्मि । चन्द्रो यमाव-
स्यायां सूर्यमाश्रयतीत्यागमः । हे प्रभो, सुधांशुतुल्यस्य मम जीवनकला आप्यायनकला
अन्या नास्त्येव । अतस्त्वं पादार्पणे चरणदाने यदि न प्रसादं कुरुषे तदा ममान्या
आप्यायनकला कापि नास्तीत्यर्थः । अथ च यदि रविः पादानां रश्मीनां प्रदानेन
सुधांशोश्चन्द्रस्य प्रसादं न कुरुते तदा सुधांशोरन्या जीवनरूपा कला कापि नास्तीत्यर्थः ॥
घोरान्धकारविधुरं विविधोपताप-
तप्तं विपद्गुरुतुषारपराहतं माम् ।
त्वं चेज्जहासि वद कस्तपनेन्दुवद्वि-
नेत्रो हरिष्यति परस्त्रिविधां ममार्तिम् ॥ ९९ ॥
 
हे विभो, घोरान्धकारविधुरं घोरो योऽन्धकारोऽज्ञांनरूपस्तेन विधुरस्तम् । तथा
विविधास्त्रित्वाद्ये उपसमीपे तापा आध्यात्मिकाद्यास्त्रयस्तापास्त एवोपतापा महासंतापा-
स्तैरुपतप्तं संतापितम् । तथा विपजन्मजरादित्रासव्यापत्सैव गुरुर्महांस्तुषारो हिमं तेन
पराहतं बाधितं मां वराकं त्वं चेजहासि त्यजसि तदा त्वं वद तपनेन्दुवहिनेत्रस्त्रिधाम-
नयनः परः कस्त्रिविधां मनस्तापतुषारकृतां ममाति हरिष्यति । एतदार्तिहरणे त्वद्यते
नान्यः समर्थ इति भावः ॥
 
व्यक्तिर्न यस्य न मतिर्न गतिर्न शक्ति-
र्नापि स्मृतिर्विपदपस्मृतिपीडितस्य ।
तस्यौषधीशमुकुटं त्रिजगद्गुरुं त्वां
 
मुक्त्वा करिष्यति परो मम कश्चिकित्साम् ॥ ९२ ॥
हे विभो, त्रिपज्जन्मजरामरणमहाचिन्तारूपा विपत् । बाह्यक्रमेण विपद्दारिद्र्यरूपा ।
सैवापस्मृतिरपस्माराख्यो महारोगस्तपा पोडितस्य यस्य मम न व्यक्तिरङ्गानां प्राकव्यं
न । मतिबुद्धिर्न । गतिर्गमनशक्तिर्न । न च शक्तिः कुत्रापि व्यापारे सामर्थ्यम् । नापि
स्मृतिः स्मरणलेशः । तस्य विपदपस्मारग्रस्तस्य मम त्रिजगद्गुरुमोषधीशमुकुटं चन्द्र-
मौलि त्वां मुक्त्वा कः परश्चिकित्सां रुक्प्रतिक्रियां करिष्यति । न कश्चिदित्यर्थः । अथ
च यस्यापस्मारपोडितस्य व्यक्तिमत्यादयो न सन्ति तस्यौषधीशमुकुटं वैद्यचूडामणि
मुक्त्वा कोऽपरश्चिकित्सां करोति ॥
 
त्वं निर्गुणः शिव तथाहमथ त्वदीयं
 
१. 'यथा' ख.
 
शून्यं परं किमपि धाम तथा मदीयम् ।
 
Digitized by Google