This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१८९
 
नुसारेण मदीयमप्येकं वृत्तम् - 'हा हा महार्त्यास्मि विमोहितोऽहं जरादिदुःखेन सदैक-

शूली । त्रिशूलिनं तं त्रिजगत्प्रसिद्धं चिकित्सकं यामि यदस्य शान्त्यै ॥" इति ॥

 
अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मे
 

चेतः प्रकाशवपुषा रविणेव बिम्बम् ।

सोपप्लवं यदि कृतं तमसा कदाचि-

दक्षीणपुण्यमहिमैव तदा विभाति ॥ ८८ ॥
 

 
हे प्रभो, प्रकाशरूपं स्फुटं प्रसिद्धं च वपुर्यस्य स तादृशेन रविणा सूर्येण अभ्रान्तवृत्ति

अभ्रस्याकाशस्यान्तस्तत्र वृत्तिः स्थितिर्यस्य तद्विबिम्बं मण्डलमिवान्तरधिष्ठितं प्रकाशव-

पुषा चित्प्रकाशवपुषा परमज्योतीरूपेण भवताधिष्ठितमभ्रान्तवृत्ति न भ्रान्ता भ्रमयुक्ता

वृत्तिर्यस्य तत्तादृशमनन्यगतिकम् । त्वत्परायणमित्यर्थः । मे मम चेतो यदि तमसः

अज्ञानेन कदाचित्सोपप्लवं सोपद्रवं कृतं तत्राप्यक्षीणपुण्यमहिम न क्षीणः पुण्यस्य महिमा.

यस्य तत्तादृशमेव तत्रापि विभाति । अथ च रविबिम्बं सोपप्लवं राहुप्ग्रस्तं सोपरागं

सत्तदप्यक्षीणपुण्यमहिम विभाति । 'तमस्तु राहुः स्वर्भानुः' इत्यमरः । 'सोपप्लवोपरक्तौ

द्वौ इति च ॥
 

 
जानामि नामृतमयं हृदयं प्रवेष्टु-

मुद्दामदुःखदवदाहहतस्तवाहम् ।

धर्तुतुं हृदि त्रिदशसिन्धुसुधासुधांशु
 

शीतं भवन्तमपि न प्रभवामि धिव्याङ्माम् ॥ ८९ ॥
 

 
हे विभो, उद्दामं च तद्दुःखं जरामरणादि दुःखं तदेव दवो दावाग्निस्तेन यो दाह-

स्तेन तोऽहममृतमयममृतप्रकृतिकं तव हृदयं प्रवेष्टुं न जानामि । मदीयदुःखदावाग्नि-

दाहेनामृतरसस्य भवदीयहृदयस्थस्य शोषभयेनान्तस्तव हृदयं प्रवेष्टुं न जानामीत्यर्थः ।

तथा त्रिदशसिन्धुर्गङ्गा सुधा अमृतं सुधांशुश्चन्द्रस्तैः शीतमतिशीतलं भवन्तमपि हृदि

स्वमनसि धर्तेतुं न प्रभवामि । महाशीतलेत्वेन शीताङ्गज्वरप्रादुर्भावशङ्कया त्वामपि हृदि

धर्तुतुं न शक्नोमीत्यर्थः । अतो मां धिगस्तु । अहं न त्वदीयहृदये प्रवेष्टुं शक्तस्त्वामपि

स्वहृदये घर्तुधर्तुं न शक्त इत्युभयथा मां धिगस्त्वित्यर्थः ॥
 

 
क्षीणः क्षताखिलकलः प्रविलीनधामा
 

त्वामाश्रितोऽस्मि सवितारमिवामृतांशुः ।

नास्त्येव जीवनकला मम काचिदन्या
 

पादार्पणेन कुरुषे यदि न प्रसादम् ॥ ९० ॥
 

 
अहं क्षीणो जन्मजरामरणत्रासचिन्तया । तथा क्षता अखिलाः कलाः शिल्पाद्या
 
Digitized by Google