2023-02-23 21:27:30 by ambuda-bot
This page has not been fully proofread.
११ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
१८९
नुसारेण मदीयमप्येकं वृत्तम् - 'हा हा महार्त्यास्मि विमोहितोऽहं जरादिदुःखेन सदैक-
शूली । त्रिशूलिनं तं त्रिजगत्प्रसिद्धं चिकित्सकं यामि यदस्य शान्त्यै ॥" इति ॥
अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मे
चेतः प्रकाशवपुषा रविणेव बिम्बम् ।
सोपप्लवं यदि कृतं तमसा कदाचि-
दक्षीणपुण्यमहिमैव तदा विभाति ॥ ८८ ॥
हे प्रभो, प्रकाशरूपं स्फुटं प्रसिद्धं च वपुर्यस्य स तादृशेन रविणा सूर्येण अभ्रान्तवृत्ति
अभ्रस्याकाशस्यान्तस्तत्र वृत्तिः स्थितिर्यस्य तद्विम्बं मण्डलमिवान्तरधिष्ठितं प्रकाशव-
पुषा चित्प्रकाशवपुषा परमज्योतीरूपेण भवताधिष्ठितमभ्रान्तवृत्ति न भ्रान्ता भ्रमयुक्ता
वृत्तिर्यस्य तत्तादृशमनन्यगतिकम् । त्वत्परायणमित्यर्थः । मे मम चेतो यदि तमसः
अज्ञानेन कदाचित्सोपप्लवं सोपद्रवं कृतं तत्राप्यक्षीणपुण्यमहिम न क्षीणः पुण्यस्य महिमा.
यस्य तत्तादृशमेव तत्रापि विभाति । अथ च रविबिम्बं सोपप्लवं राहुप्रस्तं सोपरागं
सत्तदप्यक्षीणपुण्यमहिम विभाति । 'तमस्तु राहुः स्वर्भानुः' इत्यमरः । 'सोपप्लवोपरक्तौ
द्वौ इति च ॥
जानामि नामृतमयं हृदयं प्रवेष्टु-
मुद्दामदुःखदवदाहहतस्तवाहम् ।
धर्तु हृदि त्रिदशसिन्धुसुधासुधांशु
शीतं भवन्तमपि न प्रभवामि धिव्याम् ॥ ८९ ॥
हे विभो, उद्दामं च तद्दुःखं जरामरणादि दुःखं तदेव दवो दावाग्निस्तेन यो दाह-
स्तेन इतोऽहममृतमयममृतप्रकृतिकं तव हृदयं प्रवेष्टुं न जानामि । मदीयदुःखदावाग्नि-
दाहेनामृतरसस्य भवदीयहृदयस्थस्य शोषभयेनान्तस्तव हृदयं प्रवेष्टुं न जानामीत्यर्थः ।
तथा त्रिदशसिन्धुर्गङ्गा सुधा अमृतं सुधांशुश्चन्द्रस्तैः शीतमतिशीतलं भवन्तमपि हृदि
स्वमनसि धर्ते न प्रभवामि । महाशीतलेन शीताङ्गज्वरप्रादुर्भावशङ्कया त्वामपि हृदि
धर्तु न शक्नोमीत्यर्थः । अतो मां धिगस्तु । अहं न त्वदीयहृदये प्रवेष्टुं शक्तस्त्वामपि
स्वहृदये घर्तु न शक्त इत्युभयथा मां धिगस्त्वित्यर्थः ॥
क्षीणः क्षताखिलकलः प्रविलीनधामा
त्वामाश्रितोऽस्मि सवितारमिवामृतांशुः ।
नास्त्येव जीवनकला मम काचिदन्या
पादार्पणेन कुरुषे यदि न प्रसादम् ॥ ९० ॥
अहं क्षीणो जन्मजरामरणत्रासचिन्तया । तथा क्षता अखिलाः कलाः शिल्पाद्या
Digitized by Google