This page has been fully proofread once and needs a second look.

१८८
 
काव्यमाला ।
 
र्भाग्यपर्यायो मे मम क्षतश्चलितः । यथा तव श्वेतकृष्णयोः समबुद्धिरासीत्तथा पुण्य-

जनापुण्यजनयोरपि युक्ता भवितुमर्हति । यतो नैवं तन्ममैवाभाग्यचातुरीत्यर्थः ॥

 
आवर्जनं क्रतुभुजां गजवाजिरत्न

श्रीपारिजातमै[^१]मदिरेन्दुसुधार्पणेन ।

कृत्वाग्रहीर्गरलमात्मनि यन्महिम्ना
 

सा ते क्व संप्रति कृपा मयि मै[^२]मन्दभाग्ये ॥ ८५ ॥

 
गजरत्नमैरावणस्तसमर्पणेनेन्द्रस्य तथा वाजिरत्नमुच्चैःश्रवास्तत्समर्पणेन तस्यैव । यद्वा

गजश्च वाजी च रत्नं कौस्तुभश्च । श्रीर्लक्ष्मीस्तत्समर्पणेन हरेः । पारिजातः सुरद्रुमः

मदिरा सुरा तत्समर्पणेन.....श्रीशंभोः । सुधायाः पीयूषस्य समर्पणेन देवानां चेति

क्र
तुभुजामावर्जनं वशीकरणं परमसंतोषं च कृत्वा हे विभो, त्वमात्मनि यस्याः कृ-

पायाः सुरासुररक्षार्थमुत्पन्नाया महिम्ना माहात्म्येन गरलं विषं कालकूटाख्यं विषविशेष-

मेवाग्रही: सा ते कृपा संप्रतीदानीं मयि भाग्यहीने क्व भवति ॥
 

 
दृ
प्तेषु ते मदनदक्षयमान्धकेषु

प्रादुर्भवन्मनसि रोषविषप्ररोहः ।

सिक्तः सुधामयमसूत यया प्रसादं
 

सा ते क्व संप्रति कृपा मयि [^३]भाग्यहीने ॥ ८६ ॥

 
दृप्तेषु त्रिजगज्जयित्वेनातिदर्पवत्सु मदनदक्षयमान्धकेषु कामदक्षप्रजापतियमान्धका-

सुरेषु यस्ते तव मनसि रोष एव विषं गरलं तस्य. प्ररोहोऽङ्कुरः प्रादुर्बभूव स एवाङ्कुरो

यया त्रिजगदुद्धारिण्या कृपया कृपामृतरसेन । सजीवतां यया कृपया अनयदित्यर्थः (?)।

सा कृपा संप्रति मायमयि भाग्यहीने क भवति ॥
 

 
केचिद्वरस्य भगवन्नभयस्य केचि-

[^४]त्
सौन्द्रस्य केचिदमृतस्य करस्थितस्य ।

प्रापुः कृपाप्रणयिनस्तव भाजनत्वं
 

शूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥ ८७ ॥
 

 
हे भगवन्केचित्कृपाप्रणयिनः कृपाप्रार्थका भक्तजनास्तव विभोरायुधस्थानीयस्य

वरस्य भाजनत्वं पात्रत्वं प्रापुः । केचित्पुनरभयस्यायुधस्थानीयस्य । तथा केचित्कर-

स्थितस्य पाणौ स्थितस्य सान्द्रस्योत्पन्नस्या (?) मृतस्य भाजनत्वं प्रापुः । अभाग्येन

परिक्षतो बाघिधितोऽहं केवलं शूलस्य त्रिशिखस्यायुधविशेषस्य अथ च शूलस्य शूलाख्य-

हृद्रोगविशेषस्य केवलं पात्रत्वमापम् । 'अस्त्री शूलं रुगायुधम्' इति मङ्गःखः । एतद्वृत्ता-

 
[^
]. 'मदिराब्जसुधा' ख,
[^
]. 'भाग्यहीने' क.
[^
]. 'मन्दपुण्ये' ख.
[^
]. 'सार्द्रस्य' ख.
 
Digitized by Google