This page has not been fully proofread.

१८८
 
काव्यमाला ।
 
र्भाग्यपर्यायो मे मम क्षतचलितः । यथा तव श्वेतकृष्णयोः समबुद्धिरासीत्तथा पुण्य-
जनापुण्यजनयोरपि युक्ता भवितुमर्हति । यतो नैवं तन्ममैवाभाग्यचातुरीत्यर्थः ॥
आवर्जनं क्रतुभुजां गजवाजिरत्न
श्रीपारिजातमैदिरेन्दुसुधार्पणेन ।
कृत्वाग्रहीर्गरलमात्मनि यन्महिम्ना
 
सा ते क्व संप्रति कृपा मयि मैन्दभाग्ये ॥ ८५ ॥
गजरत्नमैरावणस्तसमर्पणेनेन्द्रस्य तथा वाजिरत्नमुच्चैःश्रवास्तत्समर्पणेन तस्यैव । यद्वा
गजब वाजी च रत्नं कौस्तुभश्च । श्रीर्लक्ष्मीस्तत्समर्पणेन हरेः । पारिजातः सुरद्रुमः
मदिरा सुरा तत्समर्पणेन.....श्रीशंभोः । सुधायाः पीयूषस्य समर्पणेन देवानां चेति
ऋतुभुजामावर्जनं वशीकरणं परमसंतोषं च कृत्वा हे विभो, त्वमात्मनि यस्याः कृ-
पायाः सुरासुररक्षार्थमुत्पन्नाया महिना माहात्म्येन गरलं विषं कालकूटाख्यं विषविशेष-
मेवाग्रही: सा ते कृपा संप्रतीदानीं मयि भाग्यहीने क्व भवति ॥
 
हप्तेषु ते मदनदक्षयमान्धकेषु
प्रादुर्भवन्मनसि रोषविषप्ररोहः ।
सिक्तः सुधामयमसूत यया प्रसादं
 
सा ते क्व संप्रति कृपा मयि भाग्यहीने ॥ ८६ ॥
दृप्तेषु त्रिजगजयित्वेनातिदर्पवत्सु मदनदक्षयमान्धकेषु कामदक्षप्रजापतियमान्धका-
सुरेषु यस्ते तव मनसि रोष एव विषं गरलं तस्य. प्ररोहोऽङ्करः प्रादुर्बभूव स एवाङ्कुरो
यया त्रिजगदुद्धारिण्या कृपया कृपामृतरसेन । सजीवतां यया कृपया अनयदित्यर्थः (?)।
सा कृपा संप्रति माय भाग्यहीने क भवति ॥
 
केचिद्वरस्य भगवन्नभयस्य केचि-
सौन्द्रस्य केचिदमृतस्य करस्थितस्य ।
प्रापुः कृपाप्रणयिनस्तव भाजनत्वं
 
शूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥ ८७ ॥
 
हे भगवन्केचित्कृपाप्रणयिनः कृपाप्रार्थका भक्तजनास्तव विभोरायुधस्थानीयस्य
वरस्य भाजनत्वं पात्रत्वं प्रापुः । केचित्पुनरभयस्यायुधस्थानीयस्य । तथा केचित्कर-
स्थितस्य पाणौ स्थितस्य सान्द्रस्योत्पन्नस्या (?) मृतस्य भाजनत्वं प्रापुः । अभाग्येन
परिक्षतो बाघितोऽहं केवलं शूलस्य त्रिशिखस्यायुधविशेषस्य अथ च शूलस्य शूलाख्य-
हृद्रोगविशेषस्य केवलं पात्रत्वमापम् । 'अस्त्री शूलं रुगायुधम्' इति मङ्गः । एतद्वृत्ता-
१. 'मदिराब्जसुधा' ख, २. 'भाग्यहीने' क. ३. 'मन्दपुण्ये' ख. ४. 'साईस्य' ख.
 
Digitized by Google