This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
निःशाखतां सुमनसामनुपेयभावं
 
विच्छायतां विफलतां रसहीनतां च ॥ ८२ ॥
 
१८७
 
अहं विपदो जन्मजरामरणजत्रासोत्थविपदो गुरुत महत्वं किं वर्णयामि । यद्यस्मा-
त्कारणादियं विपत्स्थाणोः तिष्ठति सर्वोपरिष्टात्स्थाणुः श्रीशंभुस्तस्य पदे स्थाने निःशा-
खतां निराधारत्वं सुमनसां देवानां विदुषां चानुपेयमावं विच्छायतां विगतश्वेतपीतादि-
कान्तित्वं तथा विफलतां विगतकाम्यफलतां रसेनैहिकरसेन च हीनतां चोपदिश्य मां
न्ययुक्त नियुक्तवती । अथ च बाह्यविपदो गुरुत्वं किं वर्णयामि या स्थाणोरिछनशाख-
द्रुमस्य पदे स्थाने निःशाखतां विगतशाखत्वं तथा सुमनसां पुष्पाणामनुपेयभावमप्रा-
प्यत्वं तथा विच्छायतां स्कन्धलताद्यभावाद्विगतच्छायत्वं तथा विफलत्वं फलराहित्यं
रसेन हीनतां चोपदिश्य या विपन्मां न्ययुत नियुक्तवती ॥
सर्वज्ञशंभु शिवशंकरविश्वनाथ-
मृत्युंजयेश्वरमृडप्रभृतीनि देव ।
नामानि तेऽन्यविषये फलवन्ति किं तु
 
त्वं स्थाणुरेव भगवन्मयि मन्दभाग्ये ॥ ८३ ॥
 
हे देव, दीव्यति क्रीडते परमे पदे इति देवस्तत्संबोधनं हे देव । ते तव सर्वज्ञेत्यादि
नामान्यन्य विषयेऽन्यस्थाने फलवन्ति सफलानि । सर्वे जानातीति सर्वज्ञः । शं सुखमै-
कान्तिकात्यन्तिकदुःखनिवृत्तिरूपं भवत्यस्माच्छंभुः । शिवः कल्याणदायी । शंकरः शं...
भुवत् । विश्वस्य शिवादिक्षित्यन्तस्य जगतो नाथः स्वामी । मृत्युं यमं जयतीति मृत्युं-
जयः । .…..….…... । मृडयति सुखयति जगदिति मृडः । एतानि नामान्यन्येभ्यो भक्ते-
भ्यो नानाफलदायित्वेन भवन्नामानि फलवन्ति सन्ति । किं तु पक्षान्तरे । हे विभो,
मन्दपुण्ये मयि त्वं स्थाणुरेव शंभुरेव । अथ च स्थाणुरिछन्नशाखो द्रुमोऽफल एव ।
श्वेते सुदर्शनसमर्पणतत्परस्य
 
कृष्णे च यस्य न बभूव विशेषबुद्धिः ।
स त्वं श्रियं सृजसि पुण्यजनेषु मां च
 
मुञ्चस्यपुण्यजनमेष विधिः क्षतो मे ॥ ८४ ॥
 
हे विभो, श्वेते श्वेताख्यनृपतौ सु शोभनं दर्शनं तस्य समर्पणे प्रदाने तत्परस्य ।
तथा कृष्णे श्रीकृष्णे (सुदर्शनाख्यचक्रस्य समर्पणं तत्परे) । अथ च श्वेते धवले कृष्णे
मेचके च । यस्य तव विशेषबुद्धिर्न बभूव । स त्वं पुण्यजनेषु वैश्रवणादियक्षेषु श्रियं लक्ष्मीं
सृजसि वितरसि मां चापुण्यजनं पुण्यहीनं जनं मुञ्चसि दूरीकरोषि इति यदेष विधि-
१. 'विच्छायतां' ख. २. 'निःशाखतां विरसतां फलहीनतां च' ख.
 
Digitized by Google