This page has not been fully proofread.

१८६
 
काव्यमाला ।
 
हे विभो, यो धन्यो जनो रवं पूजासमये मुखवाद्यं विलापैनाक्रन्दं वा ददाति तस्य
त्वं वरं ददासि । यो वा यश्च मदं गर्व वहति धारयति तस्य दमं विधत्से कुरुषे । इत्य
नेन प्रकारेणाक्षरद्वयस्य रव इत्यस्य मद इत्यस्य च वर्णद्वयस्य विपर्ययकेलिः शोलं यस्य
स तादृक् त्वं नमो नमस्कारं कुर्वति मयि मनश्चित्तं किं नाम न करोषि । युक्तमत्रापि
विपर्ययं कर्तुमित्यर्थः । नमःशब्दोऽव्ययं नाम च ॥
 
चन्द्रं करे शिरसि चक्षुषि पादमूले
मूर्तावपीति शिव चन्द्रसुभिक्षमेतत् ।
तापान्धकारविधुरं शरणागतं कि-
मायातु लङ्घतवतस्तव मोघभावम् ॥ ८० ॥
 
i
 
हे शिव, तव करे चन्द्रः । 'देवं सुधाकलशसोमकरं' इति ध्यानोक्तेः । तथा तव
शिरसि चन्द्रः । चन्द्रमौलित्वात्तव । तथा चक्षुषि वामनेत्रे च चन्द्रः । तथा पादमूले च
तव चन्द्रः सेवाकारी । मूर्ती च चन्द्रः । शुभ्रमूर्तित्वाच्छंभोः । इत्यत एतच्चन्द्राणां सु
भिक्षमस्ति तव । अत्र चन्द्रस्य प्रतिमासं द्वादशमूर्तित्वाद्बहुचन्द्रता । तदेतश्चन्द्रसुभिक्ष
मपि तापेनाध्यात्मिकादिभेदाणिविधेन महासंतापरूपेण तथान्धकारेणाज्ञानरूपेण च वि-
धुरं व्याकुलं मां वराकं लवतोऽवगणनया दूरीकुर्वतस्तव मोघभावं वैफल्यं किमा-
यातु किं प्राप्नोतु किमर्थ प्राप्नोतु । एतेन चन्द्रसुभिक्षेण स्वायत्तेन मदीयं तापमन्धकारं
च निर्वाप्य तत्साफल्यं कुर्वित्यर्थः ॥
 
कौटिल्यमिन्दुदलतो न सुधामयत्व-
मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् ।
 
मालिन्यमेव गलतो न गभीरभावं
 

 
त्वत्तोऽपि मे तितउकल्पमवाप चेतः ॥ ८१ ॥
 
हे नाथ, मे मम चेतः प्रतिक्षणं भवदीयध्यानासक्तं सततं ध्यानेनावाप्तसाक्षात्कारस्य
तव मौलिस्थेन्दुदलत चन्द्रखण्डात्कौटिल्यं वक्रत्वमेवावाप न तु सुधामयत्वममृतमयत्वम् ।
तथा तवैवोर्ध्वनयनाद्भालस्थानलादूष्माणं सगर्वत्वेन संतापमेवावाप न तु परमुत्कृष्टं प्र
काशम् । तथा तवैव गलतः कण्ठायानावाप्तौ सकालकूटान्मलिनत्वमेवावाप न तु ग-
भीरत्वम् । मदीयं चेतः किंभूतम् । तितडकल्पं परिपवनसदृशम् । तनोति तन्यते वा
तितउः । 'तनोतेर्डउः सन्वच्च' इति डउप्रत्ययः । सन्त्वत्त्वात्विमित्वं च । 'चालनी ति-
तउः पुमान्' इत्यमरः । ईषदसमाप्तं तितउ तितउकल्पम् । यथा तितउरसारं गृह्णाति
सारं त्यजति तद्वन्मम चेत इत्यर्थः
 
किं वर्णयामि गुरुतां विपदः पदे मां
स्थाणोर्न्ययुत यदियं सहसोपदिश्य ।
 
Digitized by Google