This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१८५
 
-
 
प्रयच्छति । तथेत्यर्थः । एतद्द्वृत्तानुसारेण ममाप्येकं वृत्तम् - तैस्तैरुप्रैर्विविघरचनैः सं-
भृते यत्र दोषैरुत्पद्यन्ते सततमरुचित्रासमोहप्रलापाः । संसाराख्यं तमतिविषमं संनि-
पातं नराणामेको हन्तुं प्रभवति विभुर्लीलयासौ किरातः ॥" इति ॥
तत्सांप्रतं भुवनविश्रुतहस्तसिद्धिं
त्वामोषधीपतिशिखामणिमाश्रयामि ।
मौनं विमुद्रय दरिद्रय मोहनिद्रां
 
विद्रावय द्रुतमुपद्रवमिन्द्रियाणाम् ॥ ७७ ॥
 
तं
 
तत्तस्मात्कारणात् हे स्वामिन्, भुवनेषु विश्रुता हस्तानामटादशभुजानां सिद्धिर्यस्य
स तादृशम् । 'अष्टादशभुजं देवं नीलकण्ठं सुतेजसम्' इति श्रीस्वच्छन्दोक्तेः । एवं-
विधं त्वामोषधीपतिश्चन्द्रः शिखामणिचूडामणिर्यस्य स तं चन्द्रचूडामणि त्वामाश्रितो-
ऽस्मि । ओषधीशानां वैद्यानां शिखामणिमुत्तमं तं च । किंभूतम् । भुवनेषु विश्रुता ह
स्तसिद्धिर्हस्तप्राशस्त्यं यस्य स तादृक् तं च । हे विभो, मौनं विमुद्रय निवारय । भव-
दयस्तुतेरवर्णनीयत्वरूपं मौनं मम विमुद्रय । दूरीकुर्वित्यर्थः । ममेति शेषः । मोहनिद्रामज्ञानरू-
पनिद्रां मम दरिद्रयाल्पोकुरु । तथा द्रुतं शीघ्रमेवेन्द्रियाणां चक्षुरादीनामुपद्रवमतिचा.
अल्यं विद्रावय दूरीकुरु । तथा विख्यातहस्तसिद्धिः सिद्ध वैद्योऽपि मौनं वाक्स्तम्भं मोहं
मूर्च्छा निद्रां च प्रबलामिन्द्रियाणां दोषं च हरत्येव । एतद्वृत्तानुसारेण ममाप्येकं वृ
तम् – 'मोहान्ध्यहरणात्तीव्रभवज्वरनिवारणे । देहिनां दक्ष एकस्त्वमोषाधीशशिखा-
मणिः ॥'
 
-
 
वित्रम्ममम्भसि भजे भगवन्नगाधे
 
बाघे रिपुव्यवसितेऽप्यलसीभवामि ।
जागर्मि यन्न समवर्तिनि हन्तुकामे
 
का मे गतिर्यदि करोषि मनागवज्ञाम् ॥ ७८ ॥
 
हे भगवञ्शंभो, अहं मूढ इति शेषः । अहं मूढोऽगाधेऽतलस्पर्शेऽम्भसि जले इदं
गाधमिति मत्वा विस्रम्भमाश्वासं भजे । तथा रिपुभिः शत्रुभिर्व्यवसिते निश्चितेऽपि बाधे
मारणेऽप्यहमलसीभवामि निरुद्योगोऽस्मि । कुत इत्याह – यद्यस्माद्धन्तुकामे समवर्तिनि-
यमे न जागर्मि जागरूको भवामि । हे विभो, त्वं दयालुर्यदि मनागेवावज्ञामवगणनां
करोषि तर्हि मे मम का गतिः । न कापीत्यर्थः ॥
 
यस्ते ददाति रवमस्य वरं ददासि
 
यो वा मदं वहति तस्य दमं विधत्से ।
इत्यक्षरद्वयविपर्ययकेलिशीलः
 
किं नाम कुर्वति नमो न मनः करोषि ॥ ७९ ॥
 
२४
 
Digitized by Google